संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीसूक्तविधानम्| प्रारंभ श्रीसूक्तविधानम् विषयानुक्रमणिका प्रारंभ ऋषिदैवतच्छंदोविचारः अथ न्यासविचारः मानसपूजा श्रीसूक्तानुष्ठानोपयुक्तन्यासप्रकाराः अथ श्रीसूक्तपुरश्चरणविचारः पुरश्चरणस्य द्वैविध्यम् देशकालविचारः पुरश्चरणात्प्राक् कर्तव्यम् मालाविचारः सामान्यजपनियमाः अथ पूजाविधिः ( साधारणः ) पुरश्चरणात्प्राक् कर्तव्यविचारः अथ पुरश्चरणानुष्ठानप्रयोगः जपविधिः अथ होमः श्रीसूक्तस्य ऋक्पूरश्चरणानुष्ठानप्रयोगः सबीजं श्रीसूक्तविधानम् श्रीसूक्तयंत्रप्रकारः विविधानुष्ठानप्रकारः श्रीसूक्तविधानम् - प्रारंभ श्रीसूक्तविधानम् Tags : sanskritsooktaसंस्कृतसूक्त श्रीसूक्तविधानम् - प्रारंभ Translation - भाषांतर श्रीलक्ष्मीकेशवं नौमि दत्तात्रेयजनार्दनौ ।येषां कृपाप्रसादेन साफल्यं जन्मनो मम ॥१॥अजरालयग्रामवासी रत्नागिर्याख्यमण्डले । जोशी नारायणाख्योऽहं वामनिश्चित्तपावनः ॥२॥ब्रह्मणस्पतिसूक्तस्य विधानं प्राक् कृतं मया ।श्रीसूक्तस्याधुना कुर्वे विधानं श्रीशतुष्टये ॥३॥अनुष्ठानं कथं कार्यं फलं किं हवनं कथम् ।प्रमाणपूर्वकं सम्यक् यथामति विचार्यते ॥४॥अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा । यद्भवेत्पूरणीयं च तद्विशोध्यं दयालुभिः ॥५॥अथ विष्णुधर्मोत्तरे पुष्कर उवाच - हिरण्यवर्णां हरिणीमृचः पंचदश द्विज ।श्रीसूक्तं कथितं पुण्यं ऋग्वेदे पुष्टिवर्धनम् ॥१॥रथे अक्षेषु वाजेति चतस्रस्तु तथा ऋचः ।श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ॥२॥श्रायंतीयं तथा साम सामवेदे प्रकीर्तितम् । श्रियं धतुर्मयि धेहि प्रोक्तमाथर्वणे तथा ॥३॥श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति ।जुहुयादथ धर्मज्ञो हविष्येण विधानतः ॥४॥इति शांतिरत्ने ।अथ हिरण्यवर्णामिति पंचदशर्चं श्रीसूक्तं ऋग्वेदे । रथे अक्षेषु वृषभस्य वाजेति चतुरृचं यजुर्वेदे । श्रायंतीयं सामवेदे । श्रियं धातुर्मयि धेहीति अथर्ववेदे इति । एवं प्रतिवेदं श्रीसूक्तं भिन्नं भिन्नामुक्तम् । तत्र ऋग्वेदांतर्गतश्रीसूक्तस्य परिशिष्टरूपस्य विधिर्लिख्यते । N/A References : N/A Last Updated : March 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP