श्रीसूक्तविधानम् - सामान्यजपनियमाः

श्रीसूक्तविधानम्


तत्र वाचिकोपांशुमानसैर्जपस्त्रिधा । मंत्रस्य स्फुटाक्षरपदमुच्चारणं वाचिकः । किंचिदस्फुटाक्षरपदं उपांशुः । मनसा कृतः मानसः । तदुक्तः - धिया यदक्षरश्रेण्यास्तत्तदर्थविचारणम् । मानसस्तु जपः प्रोक्तो योगसिद्धिप्रदायकः ॥ इति । अत्र उत्तरोत्तराणां जपनिषेधार्थं किंतु मानसादिजपप्रशंसार्थं इति चंद्रिका । अल्पफलपरं इति पृथ्वीचंद्रः इति आचाररत्ने । तत्र विशेषमाह योगियाज्ञवल्क्यः - न च क्रमन् न विहसन् न पार्श्वमवलोकयन् । नापाश्रितो न जल्पंश्च न प्रावृतशिरस्थथा ॥ उष्णीषी कंचुकी नग्नो मुक्तकेशो गलावृतः । अपवित्रकरोऽशुद्धः प्रलयन्न जपेत्क्कचित् ॥ प्रसार्य पादौ न जपेत् कुक्कुटासन एव च । गतासनः शयानो वा रथ्यायां शूद्रसंनिधौ ॥ रिक्तभूम्यां च खट्वां च न जपेज्जापकः स्वयम् । आसनस्थो जपेत्सम्यङ् मंत्रार्थगतमानसः ॥ क्रोधो मदः क्षुधा तंद्रा निष्ठीवनविजृंभणे । श्व - नीचदर्शनं निद्रा प्रलापश्च जपद्विषः ॥ एतेषां संभवे वापि कुर्यात्सूर्यादिदर्शनम् । आचम्य वा जपेच्छेषं कृत्वा वा प्राणसंयमम् ॥ जपं कुर्वन्यदि ष्ठीवेत्क्षुवते जृंभतेऽपि वा । आचामेद्भुवि न्यस्ताक्षः स्पृशेदम्भोथ गोमयम् ॥ इति । अन्यच्च यामलेविण्मूत्रोत्सर्गशंकादियुक्तः कर्म करोति यः । जपार्चनादिकं सर्वमपवित्रं भवेत्प्रिये ॥ मलिनांबरवस्त्रादिमुखदुर्गंधिसंयुतः । यो जपेत्तं दहत्याशु देवता गुप्तसंस्थिता ॥ जपमध्ये - मलमूत्रोत्सर्ग कर्तव्ये मालां समाप्य त्वरा चेत् मालावृत्तिं परित्यज्य कुर्यात्, ततः कूर्परपर्यंतं हस्तौ पादौ प्रक्षाल्य आचम्य प्राणानायम्य षडंगेन शुद्धिं कृत्वा जपेत् । मलोत्सर्गे तु स्नानं कृत्वैवाचमनादि कार्यम् ॥ क्षुतादिनिमित्ते समीपे उदकाभावे वा श्रोत्राचमनमीरितम् । सूर्यदिदेवतादर्शनं च । सौभाग्यकल्पद्रुमादावपुयेवमेव । ‘ विप्रस्य दक्षिणे कर्णे सन्ति तीर्थानि देवताः । ’ इत्युक्तेः दक्षिणकर्णस्पर्शः कार्यः । तंत्रांतरे विशेषः -  ‘ रथ्यायामशिवस्थाने न जपेत्तिमिरांतरे । उपानद्गूढपादो वा यानशय्यागतस्तथा ॥ ’
एवमादयो बहवो नियमास्तत्र तत्रोक्तास्ते च देशकालाद्यनुगुणं यथाशक्ति अनुसर्तव्या इति । तदुक्तं सौ० कल्पद्रुमे - वृद्धयोषिद्रोगिणां तु नियमः स्यात्तु शक्तितः । इति । अत्र रोगिपदं आपद्ग्रस्तप्रापंचिकानामप्युपलक्षणमिति मन्ये । इदमत्रावश्यमवधेयम् यदेतन्नियमनिबन्धनं तत्तु उपासनार्थं रथाविधि गुरुमुख्याद्गहीयैतस्व मंत्रस्य जपाद्यनुष्ठानादेः न तु भगवन्नामस्मरणस्य, तत्तु यथारुचि यथाकालं ग्राह्यम् । उक्तं च भगवते - सांकेत्यं पारिहास्यं वेत्यादि० भा. स्कं. ६ अ. २
यत्तु तंत्रे जपप्रसंगेनोक्तं - अशुचिर्वा शुचिर्वापि गच्छन् तिष्ठन् स्वपन्नपि । मंत्रैकशरणो विद्वान् मनसैव सदा चरेत् ॥ न दोषो मानसे जापे सर्वदेशेऽपि सर्वदा । जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् ॥ इत्येतदपि नामस्करणपरं न तु उपदिष्टमंत्रजपविषयकम् । आचारत्नाद्याकरग्रंथविरोधात् । इत्यलं प्रसक्तानुप्रसक्त्या ॥
पुरश्चरणकर्तुर्विशेषाः ।
गोतमीये - पुरश्चरणकृन्मंत्री भिक्षाभक्षं विचिंतयेत् । अन्यथा भोजनाद्दोषात्सिद्धिहानिः प्रजायते ॥१॥
शस्तान्नं च समश्नीयात् मंत्रसिद्धिसमीहया । तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः ॥२॥
भुंजानो वा हविष्यान्नं शाकं यावकमेव वा । पयो मूलं फलं वापि यत्र यत्रोपलभ्यते ॥३॥
विश्वामित्रकल्पेऽपि - वैदिकैस्तांत्रिकैश्चैव अन्नशुद्धिः प्रकीर्तिता । अन्नानुसारि कर्माणि बुद्धिः कर्मानुसारतः ॥ अत एवान्नशोधनं कुर्यात् । शूद्रान्नं शूद्रासंपर्कं शूद्रेण च सहाशनम् । ते यांति नरकं घोरं यावच्चंद्रदिवाकरौ ॥ इति । सारसंग्रहे - तैलाक्तवस्तु नाश्नीयात् नग्नस्तोये न संविशेत् । अशुचिर्न स्वपेत्क्कापि नासास्याद्यशुचिर्भवेत् ॥ लवणं तिलसंभूतं नाश्नीयात्केवलं सुधीः । लिंपिएद्धरिद्रां वक्त्रे नो नानृतं प्रवदेत् क्कचित् ॥ कदाचिन्मलिनो न स्यात् भुवं नैव लिखेद्यथा । श्रीफलांबुजसद्रोणा मूर्ध्नि जातु न धारयेत् ॥ तथा च निर्मलाचारो युक्तः शुद्धमना भवेत् । शुद्धमाल्यानुलेपश्च शुद्धाभरणभूषितः ॥ शुद्धवस्त्रपरीधानः शुद्धदेहस्वलंकृतः । उत्कृष्टगंधानुलेपः शुद्धसंतश्च सत्तमः ॥ विष्णुभक्तश्च सततं रम्यो जाप्यो भवेत्सुधीः । रजस्वलामेकचारां योषितं न स्पृशेदपि ॥ शांतः शुचिस्मितो वाग्मी मधुरालापवान्भवेत् । दयार्द्रचेताराचार्यदेवातिथ्यर्चने रतः ॥ गुर्वग्निपूजानिर तो पुण्यशीलो दृढव्रतः । एतादृशैश्च नियमैर्युक्तो लक्ष्मी लभेत सः ॥ इति ।
नारायणीये - नाजिघ्रेन्नाक्रमेदब्जं तद्बीजं च न भक्षयेत् । बिल्वैर्न मार्जयेद्दंतान् त्रिसंध्यं प्रणमेच्च तान् ॥ प्रातर्भक्ष्यास्तिलाश्चैता धार्या लक्ष्मीं प्रपूजयेत् धारयेन्मूर्ध्नि तत्पुष्पं उत्तरे मधुरान्नभुक् ॥ पायसं बिल्वबीजं च भक्षयेच्छुक्लपर्वणि ॥ इति । शारदातिलके अष्टमपटले - द्रोणपंकजबिल्वानि पद्भ्यां जातु न लंघयेत् । सहदेवीमिंद्रवल्लीं श्रीदेवीं विष्णुवल्लभाम् ॥ कन्याजम्बूप्रवालं च धारयेन्मूर्ध्नि सर्वाअ ॥ अथ वर्ज्यानि - वर्जयेन्मधुरक्षारलवणं तैलमेव च । क्षारं च लवणं मांसं गृंजनं कांस्यभोजनम् ॥ माषाढकी मसूरं च कोद्रवांश्चणकानपि । कौटिल्यं क्षौरमभ्यंगमनिवेदितभोजनम् ॥ असंकल्पितकृत्यं च वर्जयन्मर्दनादिकं । मंत्रजपान्नपानीयैः स्नात्वाचमनभोजनम् ॥ कुर्याद्यथोक्तविधिना त्रिसंध्यं देवतार्चनम् । शक्त्या त्रिषवणं स्नानमशक्तो द्वे सकृच्च वा । अस्नातस्य फलं नास्ति नच तर्पयतः पितॄन् । अपवित्रकरो लग्नः शिरसि प्रावृतोऽपि वा ॥ प्रलपन् प्रजपेद्यावत्तावन्निष्फलमुच्यते ॥ इति ॥ कुलार्णवे विशेषः - यस्यान्नपानपुष्टांगः कुरुते धर्मसंचयम् । अन्नदातुः फलस्यार्धं कर्तुश्चार्धं न संशयः ॥ तस्मात्सर्वप्रयत्नेन परान्नं वर्जयेत्सुधीः । पुरश्चरणकालेऽपि सर्वकर्मसु शांभवि ॥ जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् । मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने ॥ अत्र परान्ननिषेधो भिक्षेतरविषयः भिक्षायां स्वसत्तोत्पादनात् । अत एव भिक्षा नैव प्रतिग्रहः इति, योगिनीहृदयेशयीत कुशशय्यायां शुचिवस्त्रधरः सदा । प्रत्यहं क्षालयेत् शय्यामेकाकी निर्भयः स्वपेत् ॥ मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् । असत्यभाषणं वाचं कुटिलां परिवर्जयेत् । वर्जयेत् गीतवाद्यादि श्रवणं नृत्यदर्शनं । अत्यंतगंधलेपं च पुष्पधारणमेव च ॥ त्यजेदुष्णोदकस्नानं ( शक्तौ सत्यां ) एवमुक्तविधानेन विलंबं त्वरितं विना । उक्तसंख्यां जपं कुर्यात् पुरश्चरणसिद्धये ॥ देवतागुरुमंत्राणामैक्यं संभावयन् धिया । जपेदेकमनाः प्रातःकालं मध्यंदिनावधि ॥ मुंडमालायां - यत्संख्यया समारब्धं तत्कर्तव्यमहर्निशम् । यदि न्यूनादिकं कुर्याद्वतभ्रष्टो भवेन्नरः ॥ न्यूनाधिकं न कर्तव्यं आसमाप्तं सदा जपेत् ॥ इति । न्यूनातिरिक्तकर्माणि न फलंति आसमाप्तं सदा जपेत् ॥ इति । न्यूनातिरिक्तकर्माणि न फलंति कदाचन । यथाविधि कृतान्येव तत्कर्माणि फलंति हि ॥ भूशय्या ब्रह्मचारित्वं मौनमाचार्यसेवनं । नित्यं त्रिषवणं स्नानं क्षुरकर्मविवर्जनम् ॥ नित्यपूजा नित्यदानं देवतास्तुतिकीर्तनम् । नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥ जपनिष्ठा द्वादशैते धर्माः स्युर्मत्रसिद्धये ॥ सारसंग्रहे - एवं च मंत्रवित्प्राज्ञः कुर्यान्नित्यजपक्रियां । पुरश्चर्याविधावेतत् श्रीसूक्तजपतत्परः । पुरश्चर्यासुसिद्ध्यर्थं कुर्याद्वतमनुत्तममिति ॥ इति पुरश्चरणकर्तुर्नियमाः ।

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP