अथ पुरश्चरणानुष्ठानप्रयोगः

श्रीसूक्तविधानम्


अथ पूर्वोक्ते शुभे मासे शुक्लप्रतिपदि शुभदिने वा श्रीकामो यजमानः संध्यादिनित्यकर्म समाप्य पुरश्चरणानुष्ठानार्थं विनियुक्ते शुभे स्थाने स्वासने उपविश्य ब्राह्मणानुज्ञया आचम्य पवित्रपाणिः प्राणानायम्य कुलदेवतामिष्टदेवतां गुरुवृद्धादींश्च नमस्कृत्य देशकालाद्युच्चाय श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नस्यामुकशर्मणः मम सकुटुंबस्य सपरिवारस्य अखिलारिष्टदुःखदौर्भाग्यादिअलक्ष्मीपरिहारपूर्वकश्रीभगवती जगदम्बामहालक्ष्मीप्रसादेन - आयुरारोग्यसुखसंपत्समृद्धिविविधैश्वर्यादिप्राप्तये देशकालाद्यनुसारतः यथाज्ञानं वैदिकगामोक्तविधिना ऋग्वेदस्थपंचदशर्चात्मकश्रीसूक्तस्य समस्तस्य द्वादशसहस्रावृत्तिजपात्मकं पुरश्चरणं अद्यप्रभृति करिष्ये । तदंगं यथाज्ञानेन यथामिलितोपचारैः श्रीमहालक्ष्मीपूजनं करिष्ये । आदौ नि०महागणपतिपूजनं पंचशब्दैः पुण्याहवाचनं शरीरशुद्ध्यर्थं न्यासादि च करिष्ये इति संकल्प्य गणेशपूजनादि कृत्वा न्यासान् कुर्यात् ते च यथा - बीजसहितप्रणवेन ‘ ॐ श्री इत्यनेन मूलमंत्रेण वा त्रिः करौ प्रमृज्य ( करन्यासं षडंगन्यासं पंचदशांगन्यासं  च ) ॐ हिरण्यवर्णां नमः अंगुष्ठाभ्यां नमः । ॐ हरिणीं नमः तर्जनीभ्यां नमः । ॐ सुवर्णरजतस्रजां नमः मध्यमाभ्यां नमः । ॐ चंद्रां हिरण्मयीं नमः अनामिकाभ्यां नमः । ॐ लक्ष्मीं नमः कनिष्ठिकाभ्यां नमः । ॐ जातवेदो म आवह नमः करतलकरपृष्ठाभ्यां नमः ॥ इति । अथ अनयैव रीत्या हृदयादिषडंगः - ॐ हिरण्यवर्णां नमः हृदयाय नमः । ॐ हरिणी नमः शिरसे स्वाहा । ॐ सुवर्णरजतस्रजां नमः शिखायै वषट् ॥ ॐ चंद्रां हिरण्मयीं नमः कवचाय हुम् । ॐ लक्ष्मीं नमः नेत्र्त्रयाय वौषट् ॥ ॐ जातवेदो म आवह नमः अस्त्राय फट् ॥ इति । अत्र करादिषडंगे हृदयादिषडंगे च पूर्वोक्तन्यासप्रकरणोक्तेषु बहुविधन्यासेष्वन्यतमो ग्राह्यो वा ॥
अथ पंचदशाङ्गन्यासः श्रीसूक्तस्य ऋचोक्तः - यथा - ॐ हिरण्यवर्णां० म आवाह० शिरसि । ॐ तां म आवह० नेत्रयोः । ॐ अश्वपूर्वां० कर्णयोः । ॐ कांसोस्मितां० नासिकयोः । ॐ चंद्रां प्रभासां० मुखे । ॐ आदित्यवर्णे० कंठे । ॐ उपैतु मां० बाह्वोः । ॐ क्षुत्पिपासा० हृदि । ॐ गंधद्वारां० नाभौ । ॐ मनसः० गुह्ये । ॐ कर्दमेन० गुदे । ॐ आपः सृजं० ऊर्वोः । ॐ आर्द्रां पुष्करिणीं० जान्वोः । ॐ आर्द्रां यष्करिणीं० जंघयोः । ॐ तां म आवह० पादयोः । इति । एवं विन्यस्य कलशशंखघण्टादीपपूजां कुर्यात् ।
‘ अपवित्रः ’ इति पूजासंभारान् आत्मानं च प्रोक्ष्य ध्यायेत् देव्याः मूर्तिं मनसि कृत्वा - अरुणकमलसंस्था तद्रजःपुंजवर्णा करकमलधृतेष्टाभीतियुग्मांबुजा च । मणिमुकुटविचित्रालंकृताकल्पजालैर्भवतु भुवनमाता संततं श्रीः श्रियै नः ॥१॥
नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥२॥
इति ध्यात्वा श्रीसूक्तस्य षोडशऋग्भिः षोडशोपचारान्‍समर्पयेत् ॐ हिरण्यवर्णा० आवाहनं इति ऋगंते ॐ भूर्भुवः स्व श्रीमहालक्ष्म्यै नमः आवाहनार्थे पुष्पं ( अक्षतान्वा ) समर्पयामि । ॐ तां म आवह० ॐ भूर्भुवः स्वः श्रीमहा० आसनार्थे अक्षतान् सम० । ॐ अश्वपूर्वां० श्रीमहा० पादयोः पाद्यं सम० । ॐ कांसोस्मितां० श्रीमहाल० अर्घ्यं० । ॐ चंद्रां प्रभासां० श्रीमहा० आचमनीयं० । ॐ आदित्यवर्णे० श्रीम० स्नानं स० । मधुपर्कस्नानमंत्रः - मधुपर्कं गृहाणेमं दधिमध्वाज्यमिश्रितम् । महालक्ष्मि महादेवि प्रसीद वरदे शिवे ॥ श्रीम० मधुपर्कस्नानं स० । आप्यायस्वेत्यादिमंत्रैः पृथक् पंचामृतस्नानं दद्यात् । अथवा - पयो दधि घृतं चैव मधुशर्करया सह । स्नानार्थं ते मया दत्तं पंचामृतमिदं रमे ॥ इति । श्रीमहा० पंचामृतस्नानं स० । शुद्धोदकस्नानं० सकलपूजार्थे गंधाक्षतपुष्पं स० । ततः गंधद्वारामिति षष्ठं गंधोदकस्नानं, उष्णोदकस्नानं, तैलाभ्यंगस्नानं च विधाय स्नानांते आचमनं दत्वा गंधादिपंचोपचारैः पूर्वपूजां विधाय अनेन पूर्वाराधनेन श्रीमहालक्ष्मीः प्रीयताम् । ततः श्रीसूक्तेन महाभिषेकः । श्रीमहा० महाभिषेकस्ननं स० । शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि । एवं देवीं संस्नाप्य शुद्धवस्त्रेण अंगप्रोञ्छनं ( अंग पुसणें ) कृत्वा शुभे पीठासने तदस्तु० सुप्रतिष्ठितमस्तु इति प्रतिष्ठाप्य । ॐ उपैतु मां० श्रीमहा० ( वस्त्रं ) वस्त्रार्थे अक्षतान् स० । क्षुप्तिपासा० श्रीमहा० उपवस्त्रार्थे अक्षतान् सम० । ॐ गंधद्वारां श्रीम० विलेपनार्थे चंदनं स० । अलंकारार्थे अक्षतान् हरिद्राकुंकुमसिंदूरकज्जलकंकणमंगलसूत्रताडपत्रादीन् अलंकारान् यथासंभवं समर्प्य परिमलद्रव्यं दत्वा । ॐ मनसः० श्रीमहा० पुष्पाणि स० । ( देव्याः प्रियानि पुष्पाणि ( पृ. ५७ ) पूर्वमुक्तानि तत्र यथासंभवानि समर्पयेत् ) अत्रैव तुलसीपत्राणि बिल्वपत्राणि च समर्पयेत् । ॐ कर्दमेन० धूपं स० । ॐ आपः सृजं० दीपं सम० । ॐ आर्द्रां पुष्करिणीं० नैवेद्यं० । ततः पूगीफलतांबूलफलदक्षिणास्तत्तन्मंत्रेण समर्प्य महानीराजनं कृत्वा ॐ आर्द्रां यष्क० प्रदक्षिणाः० । ॐ तां म आवह० नमस्कारान्० । ॐ यः शुचिः०ॐ पद्मानने पद्मऊरू पद्माक्षि पद्मसंभवे । तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ॥ श्रीमहालक्ष्म्यै नमः मंत्रपुष्पांजलि सम० । एवं षोडशोपचारान् समर्प्य प्रार्थयेत् - आवाहनं न जानामि न अपराधसहस्राणि क्रियंतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ सरसिजनिलये सरोजहस्ते धवलतरांशुकगंधमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ इत्यादि प्रार्थनामंत्रैः संप्रार्थ्य अनेन यथाज्ञानेन यथामिलितोपचारैः कृतपूजनेन श्रीभगवतीमहालक्ष्मीः प्रीयताम् । श्रीजगदंबार्पणमस्तु ॥
एवं पूजां विधाय कृतस्य कर्मण इति ब्राह्मणेभ्यः भूयसीं दक्षिणां दत्वा नत्वा तेभ्यः आशीर्वचनं संग्रुह्य तैरनुज्ञातः एकाग्रमनसा स्वस्थचित्तेन देवीं मनसि कृत्वा श्रीसूक्तजपं कुर्यात् । यावता कालेन द्वादशसहस्रसंख्यापरिपूरयितुमिष्यते तत्काल दिवसगणनया शक्त्यनुसारं प्रात्याहिकीं जपसंख्यां विनिश्चित्य प्रत्यहं तावती जपसंख्या अवश्यं पूरणीया । न न्यूना नाधिका वा “ यत्संख्यया समारब्धं तत्कर्तव्यमहर्निशम् । यदि न्यूनाधिकं कुर्यात् व्रतभ्रष्टो भवेन्नरः ॥ न्यूनाधिकं न कर्तव्यं आसमाप्तं सदा जपेत् ” इति मुंडमालास्थवचनविरोधात् । आरब्धे पुरश्चरणादिजपे एकमपि दिनं जपवन्ध्यं न कुर्यात् । यदाहं वैशंपायनः - नैरंतर्यविधिः प्रोक्तो दिनं न व्यतिलंघयेत् । दिवसातिक्रमात्पुंसो मंत्रसिद्धिर्भवेन्न हि । इति । प्रकृतेरस्वास्थ्यादिना यदि विघ्नः स्मुत्पद्येत तदापवादमाह - चं. दीपिकायां - न च दोषो महाराज राजचोराद्युपद्रवे । आशौचे दुर्धरे रोगे शत्रुषु प्राणसंकटे ॥ दिवसातिक्रमे पुंसो न्यूनाधिकजपेषु च ॥ इति ।

N/A

References : N/A
Last Updated : March 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP