श्रीसूक्तविधानम् - पुरश्चरणस्य द्वैविध्यम्

श्रीसूक्तविधानम्


तत्र श्रीसूक्तस्य पुरश्चरणं द्विविधं । द्वादशसहस्रादिसूक्तावृत्त्यात्मकम् - द्वादशसहस्रऋक्संख्यात्मकं च । आद्यं यथा - मुद्रिते - ‘ श्रीसूक्तस्य समस्तस्य पुंसा समृद्धिमिच्छता । कुर्यादर्कसहस्राणि पुरश्चर्याविधौ जपः ॥ ’ इति । अन्यत्रापि - आचम्य प्राणानायम्य श्रियै लक्ष्म्यै ततः परं । हिरण्यवर्णां सूक्तस्य जपं कुर्याद्यतमानसः । सर्वं जपेत्ततः सूक्तं श्रीसूक्तं शुभदं नृणाम् ॥
अथवा तिथिसंख्यानि शतानि च जपेत्सुधीः । जपेद्वापि महाप्राज्ञो रविसंख्यशतानि च ॥ सहस्रादवरा नास्ति पुरश्चर्या समीरिता । यो वै नियममास्थाय शुद्धमासे जपेन्नरः ॥ हविष्यलघुभुक् धीमान् यतवान् संयतेन्द्रियः । शौचाचारसमायुक्तो दुष्टक्रोधादिवर्जितः ॥ त्यजेन्मंत्री सदा सर्वं नीचसंदर्शनादिकं । सुस्नातः सुप्रसन्नात्मा सदाह्लादसमायुतः ॥ एवं च मंत्रवित्प्राज्ञः कुर्यान्नित्यं जपक्रियां । पुरश्चर्याविधावेतच्छ्रीसूक्तजपतत्परः ॥ पुरश्चर्यासुसिद्ध्यर्थं कुर्याद्धवनमुत्तमम् । रक्ताब्जैर्बिल्वपत्रैश्च बिल्वपुष्पफलैस्तथा ॥ मधुत्रयसमायुक्तैस्तत्समिद्भिश्च पायसैः । होतव्यं नियमात्तत्र सहस्रं घृतसंयुतम् ॥ अन्यैर्मनोरमौर्द्रव्यैः खाद्यैः सुमधुरैः फलैः । पूर्णाहुतिं ततः कृत्वा बलिदानपुरःसरं ॥ कुमारीणां प्रसन्नानां सुरूपाणां च नित्यशः । ब्रह्मवंशोद्भवानां च सुवाचो भाषिणां ध्रुवं ॥ सुवासिनीनां च तथा पूजनं समुदीरितम् । मधुरं भोजनं देयं शर्कराघृतसंयुतम् ॥ दश वा सप्त वा चाथ पंच वा तिस्र एव वा । एकाप्यशक्तेन तथा पूज्या कन्या सुवासिनी ॥ यथाशक्ति च तासां वै दद्यात् कंचुकवाससी । अलंकारादिकं चैव सुमनोमालिकाः शुभाः ॥ यथाशक्त्याथवा कुर्यात् सर्वमेतद्धि पूजनम् । यत्कृतं जपहोमादि पूजासंतृप्तिहेतवे ॥ द्विजसंतर्पणं चव श्रियै सर्वं निवेदयेत् एवं कृते कथं न स्युः लक्ष्मीसंपत्समृद्धयः ॥ न मुञ्चति सदा लक्ष्मीस्तन्नरं पद्मवासिनी ॥ इति ।
अत्र हि मूलवचनए ‘ श्रीसूक्तस्य समस्तस्य ’ हिरण्यवर्णां सूक्तस्य जपं कुर्यात् । सर्वं जपेत्ततः सूक्तं श्रीसूक्तं शुभदं नृणां । एतैः प्रमाणैः पुरश्चर्याविधौ द्वादशसहस्राद्यावृत्तिः श्रीसूक्तस्य समस्तस्य विहिता न तु ऋचामेव, एवं सति ‘ लोके तु संपूर्णसूक्तस्यैव द्वादशसहस्रादिजपः तद्दशांशो होमाद्यनुष्ठीयते पुरुषसूक्तजपहोमानुष्ठानवत् । भिधवैद्यनाथमहोदयैस्तत्सुधीभिर्विचरणीयम् ॥ सितप्रतिपदारभ्य यावदेकादशी भवेत् । अथं विधिः सूक्तस्य द्वादशसहस्रावृत्तिपक्षे न युज्यते, कर्मणः बहुदिनसाध्यत्वात् । ऋक्पुरश्चरणात्मकः पक्षस्त्वन्यः, स चाधुनैव वक्ष्यते इत्यलम् ।
अथ ऋक्पुरश्चरणम्
अथ द्वादशसहस्रादिऋक्संस्ख्यात्मकं पुरश्चरणं उच्यते - तच्च द्विविधं, ‘ गुरूपदिष्टमंत्रस्याहर्निशं साधनं तु यत् । नित्यं नैमित्तिकं वर्षे शरदि स्याच्च पूजनम् ॥ कामनां मनसा कृत्वा पुरश्चर्यां समाहितः । काम्यं तत्प्रोच्यते तद्वै धनादि विषयैषिणः ॥ पुरश्चरणमादौ तु कर्मणां सिद्धिकारकम् । आरभ्य शुक्लप्रतिपद यावदेकादशी भवेत् तावद्वादशसाहस्रं ऋचां जप्त्वा शुचिव्रतः । सितप्रतिपदारभ्य यावददष्टमिका भवेत् ॥ पंचसप्ततिधा (७५) सूक्तं प्रत्यहं प्रयतो जपेत् । ततो दिनद्वयं सप्तषष्टिसंख्यमुदीरितम् ॥ षट्षटिसंख्यमेकस्मिन् दिवसे प्रजपेत् सुधीः । एवमेकादशी यावदर्कसंख्यामितो जपः ॥ संहत्य ता ऋचः प्रोक्ता सहस्रं द्वादशैव हि । अथ तद्दशमांशेन पद्मैस्त्रिमधुरप्लुतैः ॥ पायसाज्यैर्बिलवदलैर्होमः कार्यो यथाविधि । उपहारानुपहरेच्छुक्लान्भक्ष्यान्पयो दधि ॥ दंपतीभ्यां प्रयत्नेन ह्यनंतां लभते श्रियम् ॥ ’ इति । अस्यार्थः - तत्र सामान्यतः कर्मणः नित्यं नैमित्तिकं काम्यं चेति त्रैविध्यम् । गुरूपदिष्टमंत्रादेः अहर्निशं कर्तव्यत्वेनानुष्ठानं नित्यम् । शरदृतुप्रतिपदादिनिमित्तोपस्थितौ कर्तव्य नैमित्तिकम् । यस्मिन्कस्मिन्नपि शुभे मासे धनादिकामनया क्रियमाणं काम्यम् । इत्यतः द्वादशसहस्रादिसंख्यात्मकऋक्पुरश्चरण वक्ष्यमाणरीत्यानुष्ठेयम् । अत्र शुक्लप्रतिपद् इति सामान्यनिर्देशात् कस्मिंश्चिदपि वक्ष्यमाणोक्तमासे शुक्लप्रतिपदारभ्य अष्टमीपर्यंतं पंचदशर्चं श्रीसूक्तं प्रत्यहं पंचसप्ततिसंख्यं जपेत् । ततो नवम्यां दशम्यां सप्तषष्टिधा जपेत् । तत एकादश्यां षट्षष्टिसंख्यं जपेत् । एवं ऋचां द्वादशसहस्रसंख्यापूर्तिर्भवति इति ।
अथ ऋक्पुरश्चरणस्य द्वितीयप्रकार :-
शिवार्चनचंद्रिकायां मेरुतंत्रे सारसंग्रहेऽपि ‘ रमामंत्रेषु यो सक्तः श्रीसूक्तं स जपेद्बुधः । विधानं वक्ष्यते सम्यक् ऋक्पंचदशकस्य हि ॥ शुक्लप्रतिपदारभ्य यावदेकादशी भवेत् ॥ तावद्द्वादशसाहस्रं जपेन्निश्चलमानसः । दशम्यंतं जपेत्सूक्तं आवृत्त्या तु त्रिसप्तत्या । एकादश्यां तु सप्तत्या सूक्तावृत्तिं चरेद्बुधः ॥ ब्रह्मचर्यरतः शुद्धो वस्त्रदंतादिभिः सुधीः ॥ पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोन्धसा । श्रीसमिद्भिः सर्पिषा च प्रत्येकं त्रिशतं हुनेत् ॥ प्रतिद्रव्यं त्रित्रिशते स्याद्द्वादशशती तथा । अशीत्या वृत्तयः सूक्तस्येवं सति भवन्ति वै ॥ द्वादश्यां द्वादशैवाथ विप्रांश्चैव तु भोजयेत् । तेन सिद्धो भवेन्मंत्रो नात्र कार्या विचारणा ॥ ’ इति ।
एवं द्वादशसहस्रसंख्याकं ऋक्पुरश्चरणं द्विविधमुक्तम् । वैद्यनाथपायगुण्डेमतेन अत्र ऋक्पुरश्चरणेऽपि पूर्वोक्ताः पंचदशशतादयोप्यन्ये पक्षा बोद्धव्याः । तेषामपि कालः शुक्लप्रतिपदारभ्यैकादशीपर्यंत उक्त एव तदनुसारेण प्रत्याहिकः सूक्तावृत्तिनियमः कल्पनीयः । ततो द्वादश्यामेव पूर्ववत् तद्दशांशादि हवनाद्यनुष्ठेयम् ॥ पंचदशशतपक्षे यथा - शुक्लप्रतिपदारभ्य अष्टमीपर्यंतं अष्टदिवसेषु दशावृत्तौ (८०) अशीतिपाठः सूक्तस्य संपन्नाः एवं ऋचां द्वादशशती पूर्णा । ततो नवमीदशम्योः प्रत्यहं अष्टावृत्तौ षोढशपाठाः, अवशिष्टाश्चत्वारः पाठा एकादश्यां, एवं सूक्तस्य शतावृत्त्या पंचदशशतात्मकऋक्पुरश्चरणपक्षः संपन्नो भवति । अनयैव दिशा आवृत्तिकल्पनया द्वादशशतावृत्तिः सहस्रावृत्तिपक्षश्चोह्यः । अस्मन्मते सूक्तावृत्तिपक्ष एव द्वादशशतावृत्तिपंचदशशतावृत्त्यादयः पक्षाः अनुसर्तव्याः । इति ऋक्पुरश्चरणविचारः ।

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP