श्रीसूक्तविधानम् - ऋषिदैवतच्छंदोविचारः

श्रीसूक्तविधानम्


तत्र वैदिकांनां तांत्रिकाणामपि मंत्राणां अनुष्ठानार्थं स्वीकृतानां ऋष्यादिज्ञानमावश्यकम् । तदुक्तं सर्वानुक्रमपरिभाषायां - ‘ न ह्येतज्ज्ञानमृते मंत्राणां श्रौतस्मार्तकर्मप्रसिद्धिः ( फलं ) आर्षेयछंदोदैवतविद् ब्राह्मणो याजनाध्यापनाभ्यां श्रेयोऽधिगच्छाति । ’ इति । पारिजतेऽपि - ‘ आर्षं छंदो दैवतं च विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥ अस्मृत्वार्षादिकं विप्रो जुहुयाद्वा जपेदपि । यजेद्वाध्यापयेद्वापि न लभेत्कर्मणां फलम् ॥ ’ इति । यद्यप्यत्र ऋष्यादिस्मरणे क्रमवैपरीत्यं तथापि आश्वलायनैः ‘ ऋषिर्दैवतं छंदांसि । ’ अनयैव रीत्या स्मरणक्रम आदर्तव्यः । परिभाषायां तथैव स्वीकारात् शिष्टपरिगृहीतत्वाच्च । तदुक्तं सर्वानुक्रमपरिभाषांयां - अथ ऋग्वेदाम्नाये शाकलके - सूक्तप्रतीकऋक्संख्याऋषिदैवतच्छंदांस्यनुक्रमिष्यामो यथोपदेशमिति । शिष्टाचारा*प्येवमेव । यथा - गायत्र्या विश्वामित्रः सविता गायत्री इत्यादिः, प्रयोगकारैरपि अयमेव क्रमः स्वीकृतः सर्वत्र । चंडिकादीपिकायां जपप्रकाशे ‘ वैदिकमंत्रेषु प्रथमं देवतायाः कीर्तनं पश्चाच्छंदसः इति हि तत्परिभाषा ’ इत्युक्तम् । ऋष्यादिज्ञानाभावे कालाभावे वा ‘ यस्य वाक्य ’ स ऋषिः या तेनोच्यते सा देवता यदक्षरपरिमाणं तच्छंदः अमुकसूक्तस्य मंत्रस्य वा अमुककर्मणि ( जपे - अभिषेके - हवने वा ) विनियोगः ’ इत्येवमुक्त्वा जपाद्यारंभं कुर्वन्ति शिष्टाः । ’ अथवा ‘ केवलदेवतास्मरनमेव वा कुर्यात् ’ इति गृह्यपरिशिष्टे ! विनियोगो हि अवश्यं वक्तव्यः कर्मणोऽङ्गत्वात् ॥
अथ श्रीसूक्ते ऋष्यादिविचारः प्रस्तूयते -
राघवभट्ट्यां हिरण्यवर्णामित्यस्य - ‘ आद्यायाः श्रीरृषिः प्रोक्तस्तत आनंदकर्दमौ । चिक्लीतश्चेंदिरापुत्रो मनुयः संप्रकीर्तिताः ॥ ’ इति । अन्यत्रापि - ‘ तत्राद्यमंत्रस्य ऋषिर्लक्ष्मीर्देवी प्रकीर्तिता । ततश्चतुर्दशानां वै ऋषयोऽत्र प्रकीर्तिताः ॥ आनंदकर्दमश्चैव चिक्लीतश्चेंदिरासुतः । ’ इति ।
दैवतविचारः ।
देवते सर्वमंत्राणामग्निश्रीरित्युभे मते ।
छंदोविचारः ।
शारदातिलकटीकायां ‘ पूर्वासां तिसृणां छंद अनुष्टुप् समुदीरितम् । चतुर्थ्या बृहती पंचमी षष्ठी तु त्रिष्टुबीरिता ॥ सप्तमी प्रमुखाष्टानां अनुष्टुप् परिकीर्तितम् । प्रस्तारपंक्तिरंत्याया देवता श्रीः प्रकीर्तिताः ॥ ’ इति ॥
इति श्रीसूक्तविधाने ऋष्यादिविचारः ॥

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP