श्रीसूक्तविधानम् - मालाविचारः

श्रीसूक्तविधानम्


अथ श्रीसूक्तानुष्ठाने परिगणनमन्यथा सिद्धं भवति तथापि सर्वत्र सामान्यतः मंत्रानुष्ठाने जपविधौ परिगणनार्थं मालाग्रहणस्यापेक्षितत्वात् तद्विषये किंचिदुच्यते । पूर्वोक्तं जपस्थानं विनिश्चित्य संमार्जनादिना संस्कृत्य तत्र - ‘ हरिणव्याघ्रयोश्चर्म कुशवेत्रकटं भवम् । कर्पासपट्टोर्णवस्त्रमच्छिद्रास्फुटितं भवेत् ॥ त्रयं वा द्वयमेकं वा भिन्नजातीयकं स्मृतम् ॥ ’ एषामन्यतमं चैकं द्वे त्रीणि वाऽऽसनानि प्रसार्य - तत्र ‘ आसनं जपमध्ये तु न विमुंचेत् कदाचन ’ इति नियमात् स्वस्तिकासनपद्मासनादि सुखसाध्यमासनं बद्ध्वा आचमनादि पूर्वांगं विधाय जपकाले मालाग्रहणं कुर्यात् । सा च माला त्रिधोक्ता सौभाग्यकल्पद्रुमे - ‘ वर्णमाला बीजमाला करमालेति सा त्रिधा । अकारादिक्षकारान्तं पंचाशद्बिंदुसंयुतम् । मेरुं कृत्वा क्षकारं वै चानुलोमविलोमतः । शतसंख्या भवेदेवं यावदिष्टजपं चरेत् ॥ ’ इति । मंत्रोच्चारादौ अंते वा एकमेकमक्षरमुच्चार्य परिगणनं कुर्यात् । अंते क्षकारं केवलमुच्चारयेत् । मेरुरूपत्वात् तस्य । इति वर्णमाला ॥
इति वर्णमाला ।
बीजमाला तु प्रसिद्धा एव । तदुक्तं शौनकेन ‘ रुद्राक्षैर्विद्रुमैर्वापि स्फटिकैर्वापि कल्पिता । माला ग्राह्या न काष्ठादि कल्पिता विफला यतः ’ ॥ तुलसीकाष्ठघटितैर्मणिभिर्जपमालिका ॥ इति । सौ. कल्पद्रुमे - ‘ पुण्यकाष्ठभवा पुत्रजीवनी रजतोद्भवा पद्माक्षजा शंखजा वा कुशग्रंथिकृत्वाऽथवा ॥ विद्रुमोत्था कांचनी च स्फाटिकी पुष्परागजा । वैडूर्यगोमेदनीलजाता मारकती तथा ॥ मुक्तामयी वज्रजाता पद्मरागमयी तथा । रुद्राक्षेति च संस्कृत्य मालया प्रजपेत्ततः ॥ ’ इति ।
अथ करमाला - तल्लक्षणं सौभाग्यकल्पद्रुमे - ‘ पर्वद्वयमनामिक्याकनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यंतं करमाला प्रकीर्तिता ॥ ’ इति । अस्यार्थः - अनामिकायाः मध्यपर्वारभ्य तन्मूलकनिष्ठामूलमध्याग्रानामिकामध्यमाग्रतर्जन्यग्रमध्यमूलेषु दशसु स्थानेषु अनुलोमविलोमतः अंगुष्ठाग्रेण स्मृशन् जपेत् । अत्र मध्यमामध्यमूलयोमेंरुत्वं बोध्यम् । इति कल्पद्रुमे ।
तत्रादौ मालाग्रथनप्रकारः - ‘ अष्टोत्तरशतं कुर्याच्चतुःपञ्चाशदेव तु । सप्तविंशतिकं वापि ततो नैवाधिका वारा ॥ ’ अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति । वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् ॥ मेरुमूर्ध्वमुखं कृत्वा प्रत्येकं नागपाशकम् । एकैकमणिमध्ये तु ग्रंथिमेकं प्रकल्पयेत् ॥ आरोपयेद्धेमसूत्रे राजते ताम्रजेऽपि वा । ग्रथयेत् क्षौमसूत्रे वा मेरुं सूत्रद्वयं न्यसेत् ॥ इति ।
मालासंस्कारः ।
तत्तद्न्रंथेषु लघुः पृथुर्मध्यमश्चेति बहुविधो मालासंस्कारो लिखितो दृश्यते । तत्र सुगमतया बालानां सुसाध्यः प्रयोगः च० दीपिकाया तंत्रचिंतामणौ च - ‘ कुशोदकैः पंचगव्यैर्मालां प्रक्षालयेत्सुधीः । अश्वत्थपत्रनवके मालां संस्थापयेदथ । मातृकास्तत्र विन्यस्य सद्योजातादिपंचभिः । अभिमंत्र्य ततो मंत्रैर्मालां सम्यक् प्रपूजयेत् । ’ इति । अथ प्रयोगः आचम्येत्यादि नूतनघटिताया मालायाः पूजाजपानुष्ठानार्हतासिद्ध्यर्थं मालासंस्कारं करिष्ये इति संकल्प्य कुशोदकेन पंचगव्यैश्च मालां प्रक्षाल्य अश्वत्थपत्रनवके संस्थाप्य तस्यामेकपंचाशन् मातृका न्यस्य सद्योजातादिपंचमंत्रैरमिमंत्र्य ( सद्योजातं, वामदेवाय, अघोरेभ्यो, तत्पुरुषाय, ईशानः ) ॐ र्‍हीं सिद्ध्यै नमः । इति पंचाक्षरेण माला मंत्रेण संपूज्य ॐ गं, इति गाणपतं बीजमुच्चार्य माला प्रार्थयेत् । तदेवं - ॐ गं, अविघ्नं कुरु माले त्वां गृह्णामि दक्षिणे करे । जपकाले तु सततं प्रसीद मम सिद्ध्ये ॥ इति । केचन सद्योजातादि पंचमंत्रैः पंचोपचारसमर्पणमिच्छंति । एवं संस्कृतां मालां जपार्थं नित्यं धारयेत् । प्रतिदिनं जपकाले मालां सुगोपितामुद्घाट्य पूर्वोक्तपंचाक्षरेण मंत्रेण ( ॐ र्‍हीं सिद्ध्यै नमः ) मालां संपूज्य ॐ गं अविघ्नं कुरु इति मंत्रेण संप्रार्थ्य मस्तकोपरि धृत्वा ‘ र्‍हीं सिद्ध्यै नमः ’ इति नत्वा ॐ महामाले महामाये सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्तवयि न्यस्तः माले त्वं सिद्धिदा भव ॥ इति दक्षिणकरे आदाय वस्त्रेणाच्छाद्य जपेत् । तदुक्तं वृद्धमनुना - ‘ वस्त्रेणाच्छाद्य करं दक्षिणं यः सदा जपेत् । तस्य स्यात्सफलं जाप्यं तद्धीनमफलं स्मृतम् ॥ ’ इति । दक्षकरेण मालामादाय हृदयस्थकरः सन् देवतां मंत्रार्थं वा चिंतयन् जपेदिति कल्पद्रुमे ॥ मेरुलंघने दोषमाह गौतमः - ‘ मेरोश्च मेरुपर्यंतं परिवर्त्य पुनः पुनः । जपे न लंघयेन्मेरुं लंघिते न फलं भवेदिति । गणयेज्जपमन्यग्रो न फलं गणनां विना । जपोत्तरं मालां पुनः ‘ ॐ ह्रीं सिद्ध्यै नमः ’ इति नत्वा देवं नत्वा इष्टमंत्रस्य पूर्ववत् षडंगन्यासं विधाय - मालां गोपयित्वा - गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपत् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ इति भावनया देवस्य देव्या वा वामहस्ते जलं क्षिपेत् इति । इति मालासंस्कारादिविधिः ॥

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP