संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीसूक्तविधानम्| पुरश्चरणात्प्राक् कर्तव्यविचारः श्रीसूक्तविधानम् विषयानुक्रमणिका प्रारंभ ऋषिदैवतच्छंदोविचारः अथ न्यासविचारः मानसपूजा श्रीसूक्तानुष्ठानोपयुक्तन्यासप्रकाराः अथ श्रीसूक्तपुरश्चरणविचारः पुरश्चरणस्य द्वैविध्यम् देशकालविचारः पुरश्चरणात्प्राक् कर्तव्यम् मालाविचारः सामान्यजपनियमाः अथ पूजाविधिः ( साधारणः ) पुरश्चरणात्प्राक् कर्तव्यविचारः अथ पुरश्चरणानुष्ठानप्रयोगः जपविधिः अथ होमः श्रीसूक्तस्य ऋक्पूरश्चरणानुष्ठानप्रयोगः सबीजं श्रीसूक्तविधानम् श्रीसूक्तयंत्रप्रकारः विविधानुष्ठानप्रकारः पुरश्चरणात्प्राक् कर्तव्यविचारः श्रीसूक्तविधानम् Tags : sanskritsooktaसंस्कृतसूक्त पुरश्चरणात्प्राक् कर्तव्यविचारः Translation - भाषांतर एतावता श्रीसूक्तपुरश्चरणकर्मणि कर्तव्यपदार्थास्तादृशे चान्यस्मिन्कर्मण्युपयुक्ताश्च विषयाः प्रमाणवचनैः सह सविस्तरं उपनिबद्धाः । अधुनानुष्ठानविषये किंचिदुच्यते - पूर्वं पूजाविधिप्रकरणे ‘ जपादौ, जपांते वेति ’ पक्षद्वयमभिहितं तत्र प्रथमपक्षांगीकारे - जपादौ संकल्पप्रारंभदिने देवीस्थापनादिकृत्यं चिकीर्षितं चेत् नांदीश्राद्धान्तं विधाय कलशस्थापनादिव्रतोद्यापनवत् देवतास्थापनादिकं कृत्वा महापूजां च कृत्वा जपारंभः कार्यः । जपान्ते वेति द्वितीयपक्षांगीकारे - उक्तकाले पुरश्चरणसंकल्पं यथाविधि कृत्वा तदंगं गणेशपूजनं पंचशब्दैः पुण्याहं वाचयित्वा गृहस्थितां देवीं षोडशोपचारैः संपूज्य उक्तविधया जपारंभः कार्यः । अंतिमदिने - जपांगहोमदिने नांदीश्राद्धोत्तरं कलशे सुवर्णप्रतिमायां देवीस्थापनं महापूजनादिविधिं च कृत्वा होमादिविधिरनुष्ठेयः । तदुक्तं विद्यागणेशपद्धतौ “ पुरश्चरणहोमे तु परिवारान्वितोऽर्चयेत् ” इति । पुरश्चरणानुष्ठानसमाप्त्युत्तरं जपांगहोमे सविस्तरं सपरिवारं आवरणदेवतासहितदेव्या महापूजनं कुर्यादिति फलितोऽर्थः । अयमेव पक्षो ज्यायान् इत्यस्मन्मतम् । तथा च पुरश्चरणारंभदिनात्पूर्वदिने उपोषणं कृत्वाऽधिकारार्थं शरीरशुद्ध्यर्थं च पूर्वोक्तगायत्रीजपादिविधिं स्वयमेव कुर्यात् । आचार्यद्वारा पुरश्चरणं क्रियते चेत्तेनापि शरीरशुद्ध्यर्थं विधिरनुष्ठेयः । नियमपालनं पंचगव्यप्राशनं यज्ञोपवीतधारणमुभयोरपीष्टं । कृच्छ्रादिप्रायश्चित्तं तु स्वयमेव कुर्यात् । इति ॥ N/A References : N/A Last Updated : March 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP