संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
नर्मदास्तोत्रम्

नर्मदास्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्देहं नर्मदां सर्वशर्मदां सर्वशिवात्मजाम् ।
देवर्षिगणसत्सेव्यामत्रिपुत्रप्रियंकरीम् ॥१॥
पितामहमहादेवशेषशायीविभूषण: ।
पादो यस्य तु तं वन्दे भृगुक्षेत्रविभूषणम् ॥२॥
पदानि त्रीणि यस्यां हि दुर्लभानि सुखानि च ।
ओंकारं भृगुक्षेत्रं च रेवोर्यो: संगमं नुम: ॥३॥
सुलक्षणविचित्राणि चित्रवर्णाकृतीनि च ।
यत्र लिंगानि गाणेशा: संजातास्ता नमाम्यहम् ॥४॥
गांग पुनाति सततं ददाति सततं पदम् ।
रेवादर्शनमात्रेण तत्पदं सततं नुम: ॥५॥
श्रीरेवे वरदे देवि दुरिताग्निसुधारसे ।
रसं प्रदेहि च धियां निधेहि सततं ततम् ॥६॥
श्रद्धाभक्तिस्वात्मसुखं याचे रागविवर्जितम् ।
मातस्तेहं बाल इति मत्वा चोद्धर ते नम: ॥७॥
संसारार्णवमग्नं मां भीतं च परिपालय ।
सुखदे मोक्षदे देवि पदे दिव्ये प्रदर्शय ॥८॥
चिद्रश्मिभिर्दीव्यतेsसौ यतिसम्राट सुधीश्वर: ।
भूषितं गारुडं क्षेत्रं भूषणाढ्या सुनर्मदा ॥
सेविता च सदा येन ततं तं त्वां नमाम्यहम् ॥९॥
इति नर्मदास्तोत्रम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP