संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीमद्भगवत्पूज्यपादस्तोत्रम्

श्रीमद्भगवत्पूज्यपादस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे श्रीभगवत्पूज्यपादमाचार्यशंकरम् ।
वेदमार्गस्थापनार्थमाविरासीत्स्वयं शिव: ॥१॥
भूत्वाष्टमेब्दे संन्यासी गोविन्दभगवद्गुरो: ।
नष्टसंन्यासमार्गं च तेने वन्दे जगद्गुरुम् ॥२॥
चतुर्दिक्षु चतु:पीठे चतुश्छात्राश्च स्थापिता: ।
सुरेश्वर: पद्मपादहस्तामलकतोटका: ॥
आचार्यवर्यान्नो वन्दे ब्रम्हविद्याप्रवर्तकान् ॥३॥
वेदान्तोपनिषद्भाष्यं येन शारीरकं कृतम् ।
गीताभाष्यं द्वैतमतखण्डनं तं नमाम्यहम् ॥४॥
मन्दप्रज्ञानबोधकरा: सुलभा ग्रन्थसंचया: ।
कृता येनाज्ञानजनोत्धारार्थं तं नमाम्यहम् ॥५॥
वेदान्तभक्तिसंपूर्णा: पूर्णानदपदप्रदा: ।
विवेकचूडामण्याद्या: कृतास्तं सततं नुम: ॥६॥
अद्वैतब्रम्हसद्वर्त्म चात्यन्तसुदृढीकृतम् ।
येन तं सततं वन्दे सशिष्यं भक्तिपूर्वकम् ॥७॥
द्वात्रिंशदब्दे भगवान् कैलासमगमद्धर: ।
श्रीमच्छंकरमाचार्यं वन्दे छात्रपरम्पराम् ॥८॥
श्रीसाम्बशिवगुर्वाद्यां शंकराचार्यमध्यगाम् ।
अस्मदाचार्यपर्यंतां वन्दे गुरुपरम्पराम् ॥९॥
श्रीमद्भगवत्पूज्यपादस्तोत्रं च प्रपठेत्सुधी: ।
तं चामृतं पदं देयाद् गुरु: श्रीशंकरार्यवित् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP