संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| ग्रन्थप्रशंसा श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - ग्रन्थप्रशंसा गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत ग्रन्थप्रशंसा Translation - भाषांतर ॥अत्रेमे भवन्त्युपसंहारश्लोकाः ॥ द्वितीये तु द्वितीयेऽत्र श्लोको ग्रन्थे स्वयं मुनेः । द्वितीयाध्यायगाः श्लोका अन्येमेतं विवृण्वते ॥१॥ इतरत्र तु सर्वत्र प्रश्नार्थः प्रश्नकारिणः । उत्तरार्थो भगवतः श्लोकबन्धो मम स्वयम् ॥२॥ अयं गणपतेर्ग्रन्थमालायामुज्ज्वलो मणिः । गुरोः सरस्वती यत्र विशुद्धे प्रतिबिम्बिता ॥३॥ ॥ग्रन्थप्रशंसा ॥ गलन्ति गङ्गेयं विमलतरगीतैव महतो नगाधीशाच्छ्रिमद्रमणमुनिरूपाज्जनिमति । पथो वाणीरूपाद्गणपतिकवेर्भक्तहृदयं समुद्रं संयाति प्रबलमलहारिण्यनुपदम् ॥ ---प्रणवानन्दः ॥श्रीरमणगीताप्रकाशपीठिका ॥ ईश्वरः सर्वभूतानमेकोऽसौ हृदयाश्रयः । स आत्मा सा परा दृष्टिस्तदन्यन्नास्ति किञ्चन ॥१॥ सा वियोगासहा शक्तिरेका शक्तस्य जग्रति । दृश्यब्रह्माण्डकोटिनां भाति जन्मादि बिभ्रती ॥२॥ यमियं वृणुते दृष्टिर्मार्जारीव निजं शिशुम् । स तामन्वेषते पोतः कपिः स्वामिव मातरम् ॥३॥ जयति स भग्वान्रमणो वाक्पतिराचार्यगणपतिर्जयति । अस्य च वाणी भग्वद् -रमणीयार्थानुवर्तिनी जयति ॥४॥ ---कपालि शास्त्री ॥श्रीरमणाञ्जलीः ॥ अरुणाद्रितटे दिशो वसानं परितः पुण्यभुवः पुनः पुनानम् । रमणाख्यामहो महो विशेषं जयति ध्वान्तहरं नरात्मवेषम् ॥१॥ चरितेन नरानरेषु तुल्यं महसां पुञ्जमिदं विदाममूल्यम् । दुरितापहमाश्रितेषु भास्वत्- करुणामूर्तिवरं महर्षिमाहुः ॥२॥ ज्वलितेन तपःप्रभावभूम्ना कबलिकृत्य जगद्विहस्य धाम्ना । विलसन् भगवान् महर्षिरस्म- त्परमाचार्यपुमान् हरत्वधं नः ॥३॥ प्रथमं पुरुषं तमीशमेके पुरुषाणां विदुरुत्तमं तथाऽन्ये । सरसीजभवाण्डमण्डलाना- मपरे मध्यमामनन्ति सन्तः ॥४॥ पुरुषत्रियतेऽपि भासमानं यमहन्धिमलिनो न वेद जन्तुः । अजहत्तमखण्डमेष नॄणां निजवृत्तेन निदर्शनाय भाति ॥५॥ मृदुलो हसितेन मन्दमन्दं दुरवेक्षः प्रबलो दृशा ज्वलन्त्या । विपुलो हृदयेन विश्वभोक्त्रा गहनो मौनगृहितया च वृत्त्या ॥६॥ गुरुराट् किमु शङ्करोऽयमन्यः किमु वा शङ्करसम्भवः कुमारः । किमु कुण्डिनजः स एव बालः किमु वा संहृतशक्तिरेष शम्भुः ॥७॥ बहुधेति विकल्पनाय विदुभि र्बहुभागस्तव मौनिनो विलाशः । हृदयेषु तु नः सदाऽविकल्पं रमण त्वं रमसे गुरो गुरूणाम् ॥८॥ औपच्छन्दसिकैरेतैर्बन्धं नीतः स्तवाञ्जलिः । उपहारायतामेष महर्षिचरणाब्जयोः ॥१॥ गुणोऽत्र रमणे भक्तिः कृतवित्त च शाश्वती । रम्यो रमणनाम्नोऽयं ध्वनिश्च हृदयङ्गमः ॥२॥ महर्षेर्मौनिराजस्य यशोगानमलङ्कृतिः । तदयं ध्वन्यकङ्कारगुणैरेवं नवोज्ज्वलः ॥३॥ रमणस्य पदाम्भोजस्मरणं हृदयङ्गमम् । इक्षुखण्डरसास्वादे को वा भृतिमपेक्षताम् ॥४॥ अयं रमणपादाब्जकिङ्करस्यापि किङ्कृता । काव्यकन्ठमुनेरन्तेवासिना वाग्विलासिना ॥५॥ रमणाङ्ध्रिसरोजातरसज्ञेन कपालिना । भारद्वाजेन भक्तेन रचितो रमणाञ्जलिः ॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP