संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ तृतीयोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ तृतीयोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ तृतीयोऽध्यायः । Translation - भाषांतर (मुख्यकर्तव्यनिरूपणम्) दैवरातस्य संवादमाचार्यरमणस्य च । निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषां मुदे ॥१॥ दैवरत उवाच किं कर्तव्य मनुष्यस्य प्रधानमिह संसृतौ । एकं निर्धाय भगवांस्तन्मे व्याख्यातुमर्हति ॥२॥ भगवानुवाच स्वस्य स्वरूपं विज्ञेयं प्रधानं महदिच्छता । प्रतिष्ठा यत्र सर्वेषां फलानामुत कर्मणाम् ॥३॥ दैवरात उवाच स्वस्य स्वरूपविज्ञाने साधनं किं समासतः । सिध्येत्केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि ॥४॥ भगवानुवाच विषयेभ्यः परावृत्य वृत्तीः सर्वाः प्रयत्नतः । विमर्शे केवलं तिष्ठेदचले निरुपाधिके ॥५॥ स्वस्य स्वरूपविज्ञाने साधनं तत्समासतः । सिध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि ॥६॥ दैवरात उवाच यावत्सिद्धिर्भवेन्नॄणां योगस्य मुनिकुञ्जर । तावन्तं नियमाः कालं किं यत्नमुपकुर्वते ॥७॥ भगवानुवाच प्रयत्नमुपकुर्वन्ति नियमा युञ्जतां सताम् । सिद्धानां कृतकृत्यानां गलन्ति नियमास्स्वयम् ॥८॥ दैवरात उवाच केवलेन विमर्शेन स्थिरेण निरुपाधिना । यथा सिद्धिस्तथा मन्त्रैर्जप्तैः सिद्धिर्भवेन्न वा ॥९॥ भगवानुवाच अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् । सिद्धिः स्याच्छद्दधानानां जप्तेन प्रणवेन वा ॥१०॥ वृतिर्जपेन मन्त्राणां शुद्धस्य प्रणवस्य वा । विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत् ॥११॥ ईशपुत्रशके शैलभूमिनन्दधरामिते । सप्तमे सप्तमे सोऽयं संवादोऽभवदद्भुतः ॥१२॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणं नाम तृतीयोऽध्यायः ॥३ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP