संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ षष्टोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ षष्टोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ षष्टोऽध्यायः । Translation - भाषांतर (मनोनिग्रहोपायः) निरुप्य हृदयस्यैवं तत्त्वं तत्त्वविदां वरः । मनसो निग्रहोपायमवदद्रमणो मुनिः ॥१॥ नित्यवत्तिमतां नॄणां विषयासक्त्तचेतसाम् । वासनानां बलियस्त्वान्मनो दुर्निग्रहं भवेत् ॥२॥ चपलं तन्निगृह्णीयात्प्राणरोधेन मानवः । पाशबद्धो यथा जन्तुस्तथा चेतो न चेष्टते ॥३॥ प्राणरोधेन वृत्तिनां निरोधः साधितो भवेत् । वृत्तिरोधेन वृत्तिनां जन्मस्थाने स्थितो भवेत् ॥४॥ प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम् । कुम्भकं सिध्यति ह्येयं सततप्रत्यवेक्षणात् ॥५॥ येषां नैतेन विधिना शक्तिः कुम्भकसाधने । हठयोगविधानेन तेषां कुम्भकमिष्यते ॥६॥ एकदा रेचकं कुर्यात्कुर्यात्पूरकमेकदा । कुम्भकं तु चतुर्वारं नाडीशुद्धिर्भवेत्ततः ॥७॥ प्राणो नाडीषु शुद्धासु निरुद्धः क्रमशो भवेत् । प्राणस्य सर्वधा रोधः शुद्धं कुम्भकमुच्यते ॥८॥ त्यागं देहात्मभावस्य रेचकं ज्ञानिनः परे । पूरकं मार्गणं स्वस्य कुम्भकं सहजस्थितिम् ॥९॥ जपेन वाऽथ मन्त्राणां मनसो निग्रहो भवेत् । मानसेन तदा मन्त्रप्राणयोरेकता भवेत् ॥१०॥ मन्त्राक्षराणां प्राणेन सायुज्यं ध्यानमुच्यते । सहजस्थितये ध्यानं दृढभूमिः प्रकल्पते ॥११॥ सहवासेन महतां सतामारुढचेतसाम् क्रियमाणेन वा नित्यं स्थाने लीनं मनो भवेत् ॥१२॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मनोनिग्रहोपायः नाम षष्टोऽध्यायः ॥६ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP