संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ पञ्चदशोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ पञ्चदशोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ पञ्चदशोऽध्यायः । Translation - भाषांतर (श्रवणमनननिदिध्यासननिरूपणम्) श्रवणं नाम किं नाथ मननं नाम किं मतम् । किं वा मुनिकुलश्रेष्ठ निदिध्यासनमुच्यते ॥१॥ इत्येवं भगवान्पृष्टो मया ब्रह्मविदां वरः । द्वाविंशे दिवसे प्रातरब्रवीच्छिष्यसंसदि ॥२॥ वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् । आचार्याच्छृवणं केचिच्छृवणं परिचक्षते ॥३॥ अपरे श्रवणं प्राहुराचार्याद्विदितात्मनः । गिरां भाषामयीनां च स्वरूपं बोधयन्ति याः ॥४॥ श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः । जन्मान्तरीयपुण्येन ज्ञात्वा वोभयमन्तरा ॥५॥ अहम्प्रत्ययमूलं त्वं शरीरादेर्विलक्षणः । इतीदं श्रवणं चित्ताच्छृवणं वस्तुतो भवेत् ॥६॥ वदन्ति मननं केचिच्छास्त्रात्रर्थस्य विचारणम् । वस्तुतो मननं तात स्वरुपस्य विचारणम् ॥७॥ विपर्यासेन रहितं संशयेन च मानद । कैश्चिद्ब्रह्मात्मविज्ञानं निदिध्यासनमुच्यते ॥८॥ विपर्यासेन रहितं संशयेन च यद्यपि । शास्त्रीयमैक्यविज्ञानं केवलं नानुभूतये ॥९॥ संशयश्च विपर्यासो निवार्येते उभावपि । अनुभूत्यैव वासिष्ठ न शास्त्रशतकैरपि ॥१०॥ शास्त्रं श्रद्धावतो हन्यात् संशयं च विपर्ययम् । श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः ॥११॥ मूलच्छेदस्तु वासिष्ठ स्वरुपानुभवे तयोः । स्वरुपे संस्थितिस्तस्मान्निदिध्यासनमुच्यते ॥१२॥ बहिस्सञ्चरतस्तात स्वरुपे संस्थितिं विना । अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया ॥१३॥ स्वरुपसंस्थितिः स्याच्चेत् सहजा कुण्डिनर्षभ । सा मुक्तिः सा परा निष्ठा स साक्षात्कार ईरितः ॥१४॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमनननिदिध्यासन निरूपणं नाम पञ्चदशोऽध्यायः ॥१५ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP