संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता|श्रीरमणगीता| अथ नवमोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ नवमोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ नवमोऽध्यायः । Translation - भाषांतर (ग्रन्थिभेदकथनम्) चतुर्दशेऽष्टमे रात्रौ महर्षि पृष्टवानहम् । ग्रन्थिभेदं समुद्दिश्य विदुषां यत्र संशयः ॥१॥ तमाकर्ण्य मम प्रश्नं रमणो भगवानृषिः । ध्यात्वा दिव्येन भावेन किञ्चिदाह महामहाः ॥२॥ शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते । सम्बन्धेनैव शारीरं भवति ज्ञानमात्मनः ॥३॥ शरीरं जडमेतत्स्यादात्मा चैतन्यमिष्यते । उभयोरपि सम्बन्धो विज्ञानेनानुमीयते ॥४॥ चैतन्यच्छाययाश्लिष्टं शरीरं तात चेष्टते । निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः ॥५॥ सूक्ष्माणां विद्युदादीनां स्थूले तन्त्र्यादिके यथा । तथा कलेवरे नाड्यां चैतन्यज्योतिषो गतिः ॥६॥ स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् । सर्वं भासयते देहं भास्करो भुवनं यथा ॥७॥ व्याप्तेन तत्प्रकाशेन शरीरे त्वनुभूतयः । स्थलं तदेव हृदयं सूरयस्सम्प्रचक्षते ॥८॥ नाडीशक्तिविलासेन चैतन्यांशुगतिर्मता । देहस्य शक्तयस्सर्वाः पृथङ्नाडीरूपाश्रिताः ॥९॥ चैतन्यं तु पृथङ्नाड्यां तां सुषुम्णां प्रचक्षते । आत्मनाडीं परामेके परेत्वमृतनाडिकाम् ॥१०॥ सर्वं देहं प्रकाशेन व्याप्तो जीवोऽभिमानवान् । मन्यते देहमात्मानं तेन भिन्नं च विष्टपम् ॥११॥ अभिमानं परित्यज्य देहे चात्मधियं सुधीः । विचारयेच्चेदेकाग्रो नाडीनां मथनं भवेत् ॥१२॥ नाडीनां मथनेनैवात्मा ताभ्यः पृथक्कृतः । केवलाममृतां नाडीमाश्रित्य प्रज्वलिष्यति ॥१३॥ आत्मनाड्यां यदा भाति चैतन्यज्योतिरुज्ज्वलम् । केवलायां तदा नान्यदात्मनस्सम्प्रभासते ॥१४॥ सान्निध्याद्भासमानं वा न पृथक्प्रतितिष्ठति । जानाति स्पष्टमात्मानं स देहमिव पामरः ॥१५॥ आत्मैव भासते यस्य बहिरन्तश्च सर्वतः । पामरस्येव रूपादि स भिन्नग्रन्थिरुच्यते ॥१६॥ नाडीबन्धोऽभिमानश्च द्वयं ग्रन्थिरुदीर्यते । नाडीबन्धेन सूक्षमोऽपि स्थूलं सर्वं प्रपश्यति ॥१७॥ निवृत्तं सर्वनाडीभ्यो यदैकां नाडीकां श्रितम् । भिन्नग्रन्थि तदा ज्योतिरात्मभावाय कल्पते ॥१८॥ अग्नितप्तमयोगोलं दृश्यतेऽग्निमयं यथा । स्वविचाराग्निसन्तप्तं तथेदं स्वमयं भवेत् ॥१९॥ शरीरादिजुषां पूर्ववासनानां क्षयस्तदा । कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति ॥२०॥ कर्तृत्वाभावतः कर्मविनाशोऽस्य समीरितः । तस्य वस्त्वन्तराभावात्संशयानामनुद्भवः ॥२१॥ भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा । सा स्थितिः परमा शक्तिस्सा शान्तिः परमा मता ॥२२॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनं नाम नवमोऽध्यायः ॥९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP