श्रीरमणगीता - अथ द्वादशोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(शक्तिविचारः) एकोनविंशे दिवसे भारद्वाजो महामनाः । कपाली कृतिषु ज्यायानपृच्छद्रमणं गुरुम् ॥१॥
कपाल्युवाच विषयी विषयो वृत्तिरितीदं भगवंस्त्रिकम् । ज्ञानिनां पामराणां च लोकयात्रासु दृश्यते ॥२॥
अथ केन विशेषेण ज्ञानी पामरतोऽधिकः । इमं मे नाथ सन्देहं निवर्तयितुमर्हसि ॥३॥
भगवानुवाच
अभिन्नो विषयी यस्य स्वरूपान्मनुजर्षभ । व्यापारविषयौ भातस्तस्याभिन्नौ स्वरूपतः ॥५॥
भेदभासे विजानाति ज्ञान्यभेदं ति तात्त्विकम् । भेदाभासवशं गत्वा पामरस्तु विभिद्यते ॥६॥
कपाल्युवाच नाथ यस्मिन्निमे भेद भासन्ते त्रिपुटीमयाः । शक्तिमद्वा स्वरूपं तदुताहो शक्तिवर्जितम् ॥७॥
भगवानुवाच
वत्स यस्मिन्निमे भेदा भासन्ते त्रिपुटीमयाः । सर्वशक्तं स्वरूपं तदाहुर्वेदान्तवेदिनः ॥८॥
कपाल्युवाच ईश्वरस्य तु या शक्तिर्गीता वेदान्तवेदिभिः । अस्ति वा चलनं तस्यमाहोस्विन्नाथ नास्ति वा ॥९॥
भगवानुवाच शक्तेस्सञ्चलनादेव लोकानां तात सम्भवः । चलनस्याश्रयो वस्तु न सञ्चलति कर्हिचित् ॥१०॥
अचलस्य तु यच्छक्तश्चलनं लोककारणम् । तामोवाचक्षते मायामनिर्वाच्यां विपश्चितः ॥११॥
चञ्चलत्वं विषयिणो यथार्थमिव भासते । चलनं न नरश्रेष्ठ स्वरूपस्य तु वस्तुतः ॥१२॥
ईश्वरस्य च शक्तेश्च भेदो दृष्तिनिमित्तकः । मिथुनं त्विदमेकं स्याद्दृष्टिश्चेदुपसंहृता ॥१३॥
कपाल्युवाच व्यापार ईश्वरस्यायं दृश्यब्रह्माण्डकोटिकृत् । नित्यः किमथवाऽनित्यो भगवान्वक्तुमर्हति ॥१४॥
भगवानुवाच
निजया परया शक्त्या चलन्नप्यचलः परः । केवलं मुनिसंवेद्यं रहस्यमिदमुत्तमम् ॥१५॥
चलत्वमेव व्यापारो व्यापारश्शक्तिरुच्यते । शक्त्या सर्वमिदं दृश्यं ससर्ज परमः पुमान् ॥१६॥
व्यापारस्तु प्रवृतिश्च निवृत्तिरिति च द्विधा । निवृरिस्था यत्र सर्वमात्मैवाभूदिति श्रुतिः ॥१७॥
नानात्वं द्वैतकालस्थं गम्यते सर्वमित्यतः । अभूदिति पदेनात्र व्यापारः कोऽपि गम्यते ॥१८॥
आत्मैवेति विनिर्देशद्विशेषाणां समं ततः । आत्मन्येवोपसंहारस्तज्जातानां प्रकीर्तितः ॥१९॥
विना शक्तिं नरश्रेष्ठ स्वरूपं न प्रतीयते । व्यापार आश्रयश्चेति द्विनामा शक्तिरुच्यते ॥२०॥
व्यापारो विश्वसर्गादिकार्यमुक्तं मनीषिभिः । आश्रयो द्विपदां श्रेष्ठ स्वरूपान्नातिरिच्यते ॥२१॥
स्वरूपमन्यसापेक्षं नैव सर्वात्मकत्वतः । शक्तिं वृत्तिं स्वरूपं च य एवं वेद वेद सः ॥२२॥
वृत्तेरभावे तु सतो नानाभावो न सिध्यति । सत्ता शक्त्यतिरिक्त्ता चेद् वृतेर्नैव समुद्भवः ॥२३॥
यदि कालेन भविता जगतः प्रलयो महान् । अभेदेन स्वरूपेऽयं व्यापारो लीनवद्भवेत् ॥२४॥
सर्वोपि व्यवहारोऽयं न भवेच्छक्तिमन्तरा । न सृष्टिर्नापि विज्ञानं यदेतत् त्रिपुटीमयम् ॥२५॥
स्वरुपमाश्रयत्वेन व्यापारस्सर्गकर्मणा । नामभ्यामुच्यते द्वाभ्यां शक्तिरेका परात्परा ॥२६॥
लक्षणं चलनं येषां शक्तेस्तेषां तदाश्रयः । यत् किञ्चित्परमं वस्तु व्यक्तव्यं स्यान्नरर्षभ ॥२७॥
तदेकं परमं वस्तु शक्तिमेके प्रचक्षते । स्वरुपं केऽपि विद्वांसो ब्रह्मान्ये पुरुषं परे ॥२८॥
वत्स सत्यं द्विधा गम्यं लक्षणेन च वस्तुतः । लक्षणेनोच्यते सत्यं वस्तुतस्त्वनुभूयते ॥२९॥
तस्मात्स्वरूपविज्ञानं व्यापारेण च वस्तुतः । ताटस्थ्येन च साक्षाच्च द्विविधं सम्प्रचक्षते ॥३०॥
स्वरुपमाश्रयं प्राहुर्व्यापारं तात लक्षणम् । वृत्या विज्ञाय तन्मूलमाश्रये प्रतितिष्ठति ॥३१॥
स्वरूपं लक्षणोपेतं लक्षणं च स्वरुपवत् । तादात्म्येनैव सम्बन्धस्त्वनयोस्सम्प्रकीर्तितः ॥३२॥
तटस्थलक्षणेनैवं व्यापाराख्येन मारिष । यतो लक्ष्यं स्वरूपं स्यान्नित्यव्यापारवत्ततः ॥३३॥
व्यापारो वस्तुनो नान्यो यदि पश्यसि तत्त्वतः । इदं तु भेदविज्ञानं सर्वं काल्पनिकं मतम् ॥३४॥
शक्त्युल्लासाह्यया सेयं सृष्टिः स्यादीशकल्पना । कल्पनेयमतीत चेत् स्वरूपमवशिष्यते ॥३५॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे शक्तिविचारो नाम द्वादशोऽध्यायः ॥१२

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP