श्रीरमणगीता -अथ पञ्चमोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(हृदयविद्या) प्रागुक्तेऽब्देऽष्टमे मासि नवमे दिवसे निशि । उपन्यसितवान् संयगुद्दिश्य हृदयं मुनिः ॥१॥
निर्गच्छन्ति यतः सर्वा वृत्तयोः देहधारिणाम् । हृदयं तत्समाख्यातं भावनाऽऽकृतिवर्णनम् ॥२॥
अहंवृत्तिः समस्तानां वृत्तीनां मूलमुच्यते । निर्गच्छन्ति यतोऽहन्धीर्हृदयं तत्समासतः ॥३॥
हृदयस्य यदि स्थानं भवेच्चक्रमनाहतम् । मूलाधारं समारभ्य योगस्योपक्रमः कुतः ॥४॥
अन्यदेव ततो रक्तपिण्डाददृदयमुच्यते अयं हृदिति वृत्त्या तदात्मनो रूपमीरितम् ॥५॥
तस्य दक्षिणतो धाम हृत्पीठे नैव वामतः । तस्मात्प्रवहति ज्योतिः सहस्रारं सुषुम्णया ॥६॥
सर्वं देहं सहस्रारात्तदा लोकानुभूतयः । ताः प्रपश्यन् विभेदेन संसारी मनुजो भवेत् ॥७॥
आत्मस्थस्य सहस्रारं शुद्धं ज्योतिर्मयं भवेत् । तत्र जीवेन्न सङ्कल्पो यदि सान्निध्यतः पतेत् ॥८॥
विज्ञानमानविषयं सन्निकर्षेण यद्यपि । न भवेद्योगभङ्गाय भेदस्याग्रहणे मनः ॥९॥
गृह्यतोऽपि स्थिरैकाधीः सहजा स्थितिरुच्यते । निर्विकल्पः समाधिस्तु विषयासन्निधौ भवेत् ॥१०॥
अण्डं वपुषि निःशेषं निःशेषं हृदये वपुः । तस्मादण्डस्य सर्वस्य हृदयं रुपसङ्ग्रहः ॥११।
भुवनं मनसो नान्यदन्यन्न हृदयान्मनः । अशेषा हृदये तस्मात्कथा परिसमाप्यते ॥१२॥
कीर्त्यते हृदयं पिण्डे यथाण्डे भानूमण्डलम् । मनः सहस्रारगतं बिम्बं चान्द्रमसं यथा ॥१३॥
यथा ददाति तपनस्तेजः कैरवबन्धवे । इदं वितरति ज्योतिर्ह्रदयं मनसे तथा ॥१४॥
ह्रद्यसन्निहितो मर्त्यो मनः केवलमीक्षते । असन्निकर्षे सूर्यस्य रात्रौ चन्द्रे यथा महः ॥१५॥
अपश्यंस्तेजसो मूलं स्वरूपं सत्यमात्मनः । मनसा च पृथक्पश्यन् भावान् भ्राम्यति पामरः ॥१६॥
हृदि सन्निहितो ज्ञानी लीनं हृदयतेजसि । ईक्षते मानसं तेजो दिवा भानाविवैन्दवम् ॥१७॥
प्रज्ञानस्य प्रवेत्तारो वाच्यमर्थं मनो विदुः अर्थं तु लक्ष्यं हृदयं हृदयान्नपरः परः ॥१८॥
दृग्दृश्यभेदधीरेषा मनसि प्रतितिष्ठति । हृदये वर्तमानां दृग्दृश्येनैकतां व्रजेत् ॥१९॥
मूर्च्छा निद्रातिसन्तोषशोकावेशभयादिभिः । निमित्तैराहता वृत्तिः स्वस्थानं हृदयं व्रजेत् ॥२०॥
तदा न ज्ञायते प्राप्तिर्हृदयस्य शरीरिणा । विज्ञायते समाधौ तु नामभेदो निमित्ततः ॥२१॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे हृदयविद्या नाम पञ्चमोऽध्यायः ॥५

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP