श्रीरमणगीता - अथ अष्टमोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(आश्रमविचारः) कार्ष्णेरेवापरं प्रश्नं निशम्य भगवान्मुनिः । चातुराश्रम्यसम्बद्धमदिकारं न्यरूपयत् ॥१॥
ब्रह्मचारी गृही वाऽपि वानप्रस्थोऽथवा यतिः । नारी वा वृषलो वापि पक्वो ब्रह्म विचारयेत् ॥२॥
सोपानवत्परं प्राप्तुं भविष्यत्याश्रमक्रमः । अत्यन्तपक्वचित्तस्य क्रमापेक्षा न विद्यते ॥३॥
गतये लोककार्याणामादिशन्त्याश्रामक्रमम् आश्रमत्रयधर्माणां न ज्ञानप्रतिकूलता ॥४॥
संन्यासो निर्मलं ज्ञानं न काषायो न मुण्डनम् ॥ प्रतिबन्धकबाहुल्यवारणायाश्रमो मतः ॥५॥
ब्रह्मचयर्याश्रमे यस्य शक्तिरुज्जृम्भते व्रतैः । विद्यया ज्ञानवृद्धया च स पश्चात्प्रज्वलिष्यति ॥६॥
ब्रह्मचर्येण शुद्धेन गृहित्वे निर्मलो भवेत् । सर्वेषामुपकाराय गृहस्थाश्रम उच्यते ॥७॥
सर्वथा वीतसङ्गस्य गृहस्थस्यापि देहिनः । परं प्रस्फुरति ज्योतिस्तत्र नैवास्ति संशयः ॥८॥
तपसस्त्वाश्रमः प्रोक्त्तस्तृतीयः पण्डितोत्तमैः । अभार्यो वा सभार्यो वा तृतीयाश्रमभाग्भवेत् ॥९॥
तपसा दग्धपापस्य पक्वचित्तस्य योगिनः । चतुर्थ आश्रमः काले स्वयमेव भविष्यति ॥१०॥
एष प्रागुक्त एवाब्धे त्वष्टमे द्वादशे पुनः । उपदेशो भगवतः सप्तमाष्टमयोरभूत् ॥११॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आश्रमविचारः नाम अष्टमोऽध्यायः ॥८

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP