संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ चतुर्थोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ चतुर्थोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ चतुर्थोऽध्यायः । Translation - भाषांतर (ज्ञानस्वरूपकथनम्) प्रथमः प्रश्नः अहं ब्रह्मास्मीति वृत्तिः किं ज्ञानं मुनिकुन्जर । उत ब्रह्माहमिति धीर्धीरहं सर्वमित्युत ॥१॥ अथवा सकलं चैतद्ब्रह्मेति ज्ञानमुच्यते । अस्माद्वृत्तिचतुष्काद्वा किं नु ज्ञानं विलक्षणम् ॥२॥ अस्योत्तरम् इमं मम गुरुः प्रश्नमन्तेवासिन आदरात् । आकर्ण्य रमणो वाक्यमुवाच भगवान्मुनि ॥३॥ वृत्तयो भावना एव सर्वा एता न संशयः । स्वरूपावस्थितिं शुद्धां ज्ञानमाहुर्मनीषिणः ॥४॥ गुरोर्वचस्तदाकर्ण्य संशयच्छेदकारकम् । अपृच्छं पुनरेवाहमन्यं संशयमुद्गतम् ॥५॥ द्वितीय प्रश्नः वृत्तिव्याप्यं भवेद्ब्रह्म न वा नाथ तपस्विनाम् । इमं मे हृदि सञ्जातं संशयं छेत्तुमर्हसि ॥६॥ तमिमं प्रश्नमाकर्ण्य मित्रमङ्ध्रिजुषामृषिः । अभिषिच्य कटाक्षेण मामिदं वाक्यमब्रवीत् ॥७॥ अस्योत्तरम् स्वात्मभूतं यदि ब्रह्म ज्ञातुं वृत्तिः प्रवर्तते । स्वात्माकारा तदा भूत्वा न पृथक् प्रतितिष्ठति ॥८॥ अयं प्रागुक्त एवाब्दे सप्तमे त्वेकविंशके । अभवन्नो मितग्रन्थः संवादो रोमहर्षणः ॥९॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरुपकथनं नाम चतुर्थोऽध्यायः ॥४ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP