संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ द्वितीयोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ द्वितीयोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ द्वितीयोऽध्यायः । Translation - भाषांतर (मार्गत्रयकथनम्) ईशपुत्रशके बाणभूमिनन्दधरामिते । चातुर्मास्ये जगौ सारं सङ्गृह्य भगवानृषि ॥१॥ हृदयकुहरमध्ये केवलं ब्रह्ममात्रं ह्यहमहमिति साक्षादात्मरूपेण भाति । हृदि विश मनसा स्वं चिन्व्ता मज्जता वा पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥२॥ श्लोकं भगवतो वक्त्रान्महर्षेरिममुद्गतम् । श्रुत्यन्तसारं यो वेद संशयो नास्य जातुचित् ॥३॥ अत्र श्लोके भगवता पूर्वार्धे स्थानमीरितम् । शारीरकस्य दृश्येऽस्मिञ्छरीरे पाञ्चभौतिके ॥४॥ तत्रैव लक्षणं चोक्तं द्वैतमीशा च वारितम् । उक्तं चाप्यपरोक्षत्वं नानालिङ्गनिबर्हणम् ॥५॥ उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः । त्रेधा भिन्नेन मार्गेण तत्त्वादैक्यं समीयुषा ॥६॥ उपायो मार्गणाभिख्यः प्रथमः सम्प्रकीर्तितः । द्वितीयो मज्ज्नाभिख्यः प्राणरोधस्तृतीयकः ॥७॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनं नाम द्वितीयोऽध्यायः ॥२ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP