संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ सप्तदशोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ सप्तदशोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ सप्तदशोऽध्यायः । Translation - भाषांतर (ज्ञानप्राप्तिविचारः) पञ्चविंशे तु दिवसे वैदर्भो विदुषं वरः । प्रश्रयानवतो भूत्वा मुनिं भूयोऽपि पृष्टवान् ॥१॥ वैदर्भ उवाच क्रमेणायाति किं ज्ञानं किञ्चित्किञ्चिद्दिने दिने । एकस्मिन्नेव काले किं पूर्णमाभाति भानुवत् ॥२॥ भगवानुवाच क्रमेणायाति न ज्ञानं किञ्चित्किञ्चिद्दिने दिने । अभ्यासपरिपाकेन भासते पूर्णमेकदा ॥३॥ वैदर्भ उवाच अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा । यातायातं प्रकुर्वाणा याते किं ज्ञानमुच्यते ॥४॥ भगवानुवाच अन्तर्याता मतिर्विद्वन्बहिरायाति चेत्पुनः । अभ्यासमेव तामाहुर्ज्ञानं ह्यनुभवोऽच्युतः ॥५॥ वैदर्भ उवाच ज्ञानस्य मुनिशार्दूल भूमिकाः काश्चिदीरिताः । शास्त्रेषु विदुषां श्रेष्ठैः कथं तासां समन्वयः ॥६॥ भगवानुवाच शास्त्रोक्ता भूमिकास्सर्वा भवन्ति परबुद्धिगाः । मुक्तिभेदा इव प्राज्ञ ज्ञानमेकं प्रजानताम् ॥७॥ चर्यां देहेन्द्रियादीनां वीक्ष्याब्धानुसारिणीम् । कल्पयन्ति परे भूमिस्तारतम्यं न वस्तुतः ॥८॥ वैदर्भ उवाच प्रज्ञानमेकदा सिद्धं सर्वाज्ञाननिबर्हणम् । तिरोधते किमज्ञानात्सङ्गादङ्कुरितात्पुनः ॥९॥ भगवानुवाच अज्ञानस्य प्रतिद्वन्दि न पराभूयते पुनः । प्रज्ञानमेकदा सिद्धं भरद्वाजकुलोद्वह ॥१०॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो नाम सप्तदशोऽध्यायः ॥१७ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP