संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ सप्तमोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ सप्तमोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ सप्तमोऽध्यायः । Translation - भाषांतर (आत्मविचाराधिकारितदङ्गनिरूपणम्) भारद्वाजस्य वै कार्ष्णेराचार्यरमणस्य च । अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे ॥१॥ कार्ष्णिरुवाच रूपमात्मविचारस्य किं नु किं वा प्रयोजनम् । लभ्यादात्मविचारेण फलं भूयोऽन्यतोऽस्ति वा ॥२॥ भगवानुवाच सर्वासामपि वृत्तीनां समष्टिर्या समीरिता । अहंवृत्तेरमुष्यास्तु जन्मस्थानं विमृश्यताम् ॥३॥ एष आत्मविचारः स्यन्न शास्त्रपरिशीलनम् । अहङ्कारो विलीनः स्यान्मूलस्थानगवेषणे ॥४॥ आत्माभासस्त्वहङ्कारः स यदा सम्प्रलियते । आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते ॥५॥ सर्वक्लेशनिवृत्तिः स्यात्फलमात्मविचारतः । फलानामवधिः सोऽयमस्ति नेतोऽधिकं फलम् ॥६॥ अद्भुताः सिद्धयः साध्या उपायान्तरतश्च याः । ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निवृतः ॥७॥ कार्ष्णिरुवाच एतस्यात्मविचारस्य प्राहुः कमधिकारिणम् । अधिकारस्य सम्पत्तिः किं ज्ञातुं शक्यते स्वयम् ॥८॥ भगवानुवाच उपासनादिभिः शुद्धं प्राग्जमसुकृतेन वा । दृष्टदोषं मनो यस्य शरीरे विषयेषु च ॥९॥ मनसा चरतो यस्य विष्येष्वरुचिर्भृशम् । देहे चानित्यता बुद्धिस्तं प्रहुरधिकारिणम् ॥१०॥ देहे नश्वरताबुद्धेर्वैराग्याद्विषयेषु च । एताभ्यामेव लिङ्गाभ्यां ज्ञेया स्वस्याधिकारिता ॥११॥ कार्ष्णिरुवाच स्नानं सन्ध्यां जपो होमः स्वाध्यायो देवपूजनम् । सङ्कीर्तनं तिर्थयात्रा यज्ञो दानं व्रतानि च ॥१२॥ विचारे साधिकारस्य वैराग्याच्च विवेकतः । किं वा प्रयोजनाय स्युरुत कालविधूतये ॥१३॥ भगवानुवाच आरम्भिणां क्षीयमाणरागाणामधिकारिणाम् । कर्माण्येतानि सर्वाणि भूयस्यै चितशिद्धये ॥१४॥ यत्कर्म सुकृतं प्रोक्तं मनोवाक्कायसम्भवम् । तत्तु कर्मान्तरं हन्ति मनोवाक्कायसम्भवम् ॥१५॥ अत्यन्तशुद्धमनसां पक्वानामधिकारिणाम् । इदं लोकोपकाराय कर्मजालं भविष्यति ॥१६॥ परेषामुपदेशाय् क्षेमाय च मनीषिणः । पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः ॥१७॥ विचारप्रतिकूलानि न पुण्यानि नरर्षभ । क्रियमाणान्यसङ्गेन भेदबुद्ध्युपमर्दिना ॥१८॥ न चाकृतानि पापाय पक्वनामधिकारिणाम् । स्वविमर्शो महत्पुण्यं पावनानां हि पावनम् ॥१९॥ दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् । त्याग एकान्तयोगाय परार्थं च क्रियादरः ॥२०॥ कार्ष्णिरुवाच निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः । एको वा विविधस्तं मे भगवान्वक्तुमर्हति ॥२१॥ भगवानुवाच एकः प्राप्तुं प्रयतते परः प्राप्तारमृच्छति । चिराय प्रथमो गच्छन् प्राप्तोत्यात्मान्मन्ततः ॥२२॥ एकस्य ध्यानतश्चित्तमेकाकृतिर्भविष्यति । एकाकृतित्वं चित्तस्य स्वरुपे स्थितये भवेत् ॥२३॥ अनिच्छयाप्यतो ध्यायन् विन्दत्यात्मनि संस्थितिम् । विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः ॥२४॥ ध्यायो देवतां मन्त्रमन्यद्वा लक्ष्यमुत्तमम् । ध्येयमात्मात्ममहाज्योतिष्यन्ततो लीनतां व्रजेत् ॥२५॥ गतिरेवं द्वयोरेका ध्यातुश्चात्मविमर्शिनः । ध्यायन्नेकः प्रशान्तः स्यादन्यो विज्ञाय शाम्यति ॥२६॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणं नाम सप्तमोऽध्यायः ॥७ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP