संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ प्रथमोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ प्रथमोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ प्रथमोऽध्यायः । Translation - भाषांतर (उपासनाप्राधान्यनिरूपणम्) महर्षि रमणं नत्वा कार्तिकेयं नराकृतिम् । मतं तस्य प्रसन्नेन ग्रन्थेनोपनिबध्यते ॥१॥ इषपुत्रशके राम भूमिनन्दधरामिते । एकोन्त्रिंशद्दिवसे द्वादशे मासि शीतले ॥२॥ उपविष्टेषु सर्वेषु शिष्येषु नियतात्मसु । भगवन्तमृषि सोऽहमपृच्छं निर्णयाप्तये ॥३॥ प्रथमः प्रश्नः सत्यासत्यविवेकेन मुच्यते केवलेन किम् । उताहो बन्धहानाय विद्यते साधनान्तरम् ॥४॥ द्वितीयः प्रश्नः किमलं शास्त्रचर्चैव जिज्ञासूनां विमुक्तये । यथा गुरुपदेशं किमुपासनपेक्षते ॥५॥ तृतीय प्रश्नः स्थितप्रज्ञः स्थितप्रज्ञमात्मानं किं समर्थयेत् । विदित्वा परिपूर्णत्वं ज्ञानस्योपरतेरुत ॥६॥ चतुर्थः प्रश्नः ज्ञानिनं केन लिङ्गेन ज्ञातुं शक्ष्यन्ति कोविदाः ॥७॥ पञ्चमः प्रश्नः ज्ञानायैव समाधिः किं कामायाप्युत कल्पते ॥७॥ षष्ठः प्रश्नः कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि । सकामोऽमुष्य साफल्यमधिगच्छति वा न वा ॥८॥ एवं मम गुरुः प्रश्नानकर्ण्य करुणानिधिः । अब्रवीत्संशयच्छेदी रमणो भगवानृषिः ॥९॥ प्रथमप्रश्नस्योत्तरम् मोचयेत्सकलान् बन्धानात्मनिष्ठैव केवलम् । सत्यासत्यविवेकं तु प्राहुर्वैराग्यसाधनम् ॥१०॥ सदा तिष्ठति गम्भीरो ज्ञानी केवलमात्मनि । नासत्यं चिन्तयेद्विश्वं न वा स्वस्य तदन्यताम् ॥११॥ द्वितीयप्रश्नस्योत्तरम् न संसिद्धिर्विजिज्ञासोः केवलं शास्त्रचर्चया । उपासनं विना सिद्धिर्नैव स्यादिति निर्णयः ॥१२॥ अभ्यासकाले सहजां स्थितिं प्राहुरुपासनम् । सिद्धिं स्थिरां यदा गच्छेत्सैव ज्ञानं तदोच्यते ॥१३॥ विषयान्त्सम्परित्यज्य स्वस्वभावेन संस्थितिः । ज्ञानज्वालाकृतिः प्रोक्त्ता सहजा स्थितिरात्मनः ॥१४॥ तृतीयप्रश्नस्योत्तरम् निर्वासेन मौनेन स्थिरायां सहजस्थितौ । ज्ञानी ज्ञानिनमात्मानं निःसन्देहः समर्थयेत् ॥१५॥ चतुर्थप्रश्नस्योत्तरम् सर्वभूतसमत्वेन लिङ्गेन ज्ञानमूह्यताम् । पञ्चमप्रश्नस्योत्तरम् कामारब्धस्समाधिस्तु कामं फलै निश्चितम् ॥१६॥ षष्ठप्रश्नस्योत्तरम् कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि । स कामोऽमुष्य साफल्यं गच्छन्नपि न हर्षयेत् ॥१७॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे उपासनप्राधान्यनिरूपणं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP