संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ दशमोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ दशमोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ दशमोऽध्यायः । Translation - भाषांतर (सङ्घविद्या) यतिनो योगनाथस्य महर्षिरमणस्य च । दशमेऽत्र नीबघ्निमस्संवादं सङ्घहर्षदम् ॥१॥ योगनाथ उवाच साङ्घिकस्य च सङ्घस्य कस्सम्बन्धो महामुने । सङ्घस्य श्रेयसे नाथ तमेतं वक्तुमर्हसि ॥२॥ भगवानुवाच ज्ञेयश्शरीरवत्सङ्घस्तत्तदाचारशालिनम् । अङ्गानीवात्र विज्ञेयास्साङ्घिकास्सधुसत्तम ॥३॥ अङ्गं यथा शरीरस्य करोत्युपकृतिं यते । तथोपकारं सङ्घस्य कुर्वन् जयति साङ्घिकः ॥ सङ्घस्य वाङ्मनःकायैरुपकारो यथा भवेत् । स्वयं तथाऽऽचरन्नित्यं स्वकीयानपि बोघयेत् ॥५॥ आनुकूल्येन सङ्घस्य स्थापयित्वा निजं कुलम् । सङ्घस्यैव ततो भूत्यै कुर्याद्भुतियुतं कुलम् ॥६॥ योगनाथ उवाच शान्तिं केचित्प्रशंसन्ति शक्तिं केचिन्मनीषिणः । अनयोः को गुणो ज्यायान्त्सङ्घक्षेमकृते विभो ॥७॥ भगवानुवाच स्वमनश्शुद्धये शान्तिश्शक्तिस्सङ्घस्य वृद्धये । शक्त्या सङ्घं विधायोच्चैश्शान्तिं संस्थापयेत्ततः ॥८॥ योगनाथ उवाच सर्वस्यापि च सङ्घस्य नराणाणामृषिकुञ्जर । गन्तव्यं समुदायेन किं परं धरणीतले ॥९॥ भगवानुवाच समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् । सौभ्रात्रं समभावेन गन्तव्यं परमुच्यते ॥१०॥ सौभ्रात्रेण परा शान्तिरन्योन्यं देहधारिणाम् । तदेत्यं शोभते सर्वा भूमिरेकं गृहं यथा ॥११॥ अभूत्पञ्चदशे घस्त्रे संवादस्सोऽयमष्टमे । योगनाथस्य यतिनो महर्षेश्च दयावतः ॥१२॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्या नाम दशमोऽध्यायः ॥१० N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP