संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ षोडशोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ षोडशोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ षोडशोऽध्यायः । Translation - भाषांतर (भक्तिविचारः) अथ भक्तिं समुद्दिश्य पृष्टः पुरुषसत्तमः । अभाषत महाभागो भगवान् रमणो मुनिः ॥१॥ आत्मा प्रियः समस्तस्य प्रियं नेतरदात्मनः । अच्छिन्ना तैलधारावत् प्रीतिर्भक्तिरुदाहृता ॥२॥ अभिन्नं स्वात्मनः प्रीत्या विजानातीश्वरं कविः । जानन्नप्यपरो भिन्नं लीन आत्मनि तिष्ठति ॥३॥ वहन्ती तैलधारावद्या प्रीतिः परमेश्वरे । अनिच्छतोऽपि सा बुद्धिं स्वरुपं नयति ध्रुवम् ॥४॥ परिच्छिन्नं यदात्मानं स्वल्पज्ञं चापि मन्यते । भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये ॥५॥ व्यापकं परमं वस्तु भजते देवताधिया । भजंश्च देवताबुद्ध्या तदेवान्ते समश्नुते ॥६॥ देवताया नरश्रेष्ठ नामरूपप्रकल्पनात् । ताभ्यां तु नामरूपाभ्यां नामरुपे विजेष्यते ॥७॥ भक्तौ तु परिपूर्णायमलं श्रवणमेकदा । ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते ॥८॥ धाराव्यपेता या भक्तिः सा विच्छिन्नेति कीर्त्यते । भक्तेः परस्य सा हेतुर्भवतीति विनिर्णयः ॥९॥ कामाय भक्तिं कुर्वाणः कामं प्राप्याप्यनिवृतः । शाश्वताय सुखस्यान्ते भजते पुनरीश्वरम् ॥१०॥ भक्तिः कामसमेताऽपि कामाप्तौ न निवर्तते । श्रद्धा वृद्धा परे पुंसि भूय एवाभिर्वर्धते ॥११॥ वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति । पूर्णया परया भक्त्या ज्ञानेनेव भवं तरेत् ॥१२॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारः नाम षोडशोऽध्यायः ॥१६ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP