संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|नक्षत्रजननशांतयः| व्रतोद्यापनाद्युपयुक्तं मंडलदेवतास्थापनम् नक्षत्रजननशांतयः तत्रादौ ज्येष्ठाजननशांतिः मूलजननशांतिः आश्लेषाजननशांतिः पित्राद्येकनक्षत्रजननशांतिः चित्रादिनक्षत्रजननशांतयः व्यतीपातजननशांतिः वैधृतिजननशांतिः भद्राजननशान्तिः अधोमुखजननशांतिः प्रकारांतरेण साधारणज्वरशांतिः ज्वरादिसर्वरोगनाशकानि अनिष्टग्रहपीडापरिहारार्थदानानि शनिव्रतम् अनिष्टग्रहदानसंकल्पः ग्रहाणां जपसंख्या नारायणबलिः नागबलिः व्रतोद्यापनाद्युपयुक्तं मंडलदेवतास्थापनम् व्रतोद्यापनविधिः नक्षत्रजननशांतयः - व्रतोद्यापनाद्युपयुक्तं मंडलदेवतास्थापनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत व्रतोद्यापनाद्युपयुक्तं मंडलदेवतास्थापनम् Translation - भाषांतर तत्र ब्रह्मादिमंडलदेवता आवाहनमंत्राः - त्वं वै चतुर्मुखो ब्रह्मा स्वर्गे लोके पितामहः । आगच्छ मंडले ह्यस्मिन् मम सर्वार्थसिद्ध्ये । ब्रह्मणे नमः ब्रह्माणमावाहयामि १। ब्रह्मण उत्तरे - क्षीरोदार्णवसंभूतं लक्ष्मीबंधुं निशाकरम् । मंडले स्थापयाम्यस्मिन् सोमं सर्वार्थसिद्धिदम् । सोमाय० सोममा० २। ईशान्यांईशानं पावकं श्रेष्ठं सर्वलोकभयंकरम् । मंडले स्थापयामीह ईशानीदिक्पतिं प्रभुम् । ईशानाय० ईशनमा० ३। पूर्वे - सर्वलोकाधिपं श्रेष्ठं देवर्षीणां च पालकम् । पूर्वदिक्पतिमिंद्रं वै स्थापयामि सुरेश्वरम् । इंद्राय० इंद्रमा० ४। आग्नेय्यां - त्रिपादं मेषवाहं च सप्तजिह्वं द्विशीर्षकम् । चतुःश्रृंगं प्रसन्नास्यं स्थापयाम्यग्निमुत्तमम् । अग्नये० अग्निमा० ५। दक्षिणस्यां - अंतकं सर्वलोकानां धर्मराज इति श्रुतः । अतस्त्वां स्थापयामीह दक्षिणस्यां स्थिरो भव ॥ यमाय० यममा० ६। नैऋत्यां - नैऋत्यां वसतिर्यस्य कौणपानां पतिश्च यः । मंडले स्थापयाम्यत्र नैऋत्यां तं हि निऋतिम् । निऋतये० निऋतिमा० ७। पश्चिमस्यां - अपांपतिंपाशधरं यादसां प्रभुमीश्वरम् । वरुणं स्थापयाम्यत्र वारुण्यां मंडले शुभे । वरुणाय० वरुणमा० ८। वायव्यां - आशुगं स्पर्शबोधं च मृगवाहं समीरणम् । मंडले स्थापयामीह वायव्यां वायुमुत्तमम् । वायवे० वायुमा० ९। वायुसोमयोर्मध्ये - धरोध्रुवश्च सोमश्चआशुगश्चानलो बलः । प्रत्यूषश्च प्रभासश्च नमाम्यतान्वसूनहम् । अष्टवसुभ्यो० अष्टवसूनावा० १०। सोमेशानयोर्मध्ये - वीरभद्रश्च शंभुश्च गिरीशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः । भुवनाधीश्वरश्चैव कपाली च विशांपतिः । स्थाणुर्भवश्च भगवान् रुद्रानेतान्नमाम्यहम् । एकादशरुद्रेभ्यो० एकादशरुद्राना० ११। ईशानेन्द्रयोर्मध्ये - आदित्यं भास्करं चैव प्रभाकरदिवाकरौ । सूर्यं ग्रहपतिं सोमं ब्रध्नं तेजस्विनं रविम् । सप्ताश्वं देवमूर्तिं च त्रिदैवत्यंनमाम्यहम् । द्वादशादित्येभ्यो० द्वादशादित्याना० १२। इंद्राग्न्योर्मध्ये - अश्विनौ देवभिषजौ सर्गस्थित्यंतकारिणौ । मंडले स्थापयाम्यत्र पूजार्थं सुरसत्तमौ । अश्विभ्यां नमः अश्विनावा० १३। अग्नियमयोर्मध्ये - दैवे कर्मणि पित्र्ये च ये मुख्याः सर्वदा शुभाः । विश्वेदेवाः सुरश्रेष्ठास्तेभ्यो नित्यं नमो नमः । विश्वेभ्यो देवेभ्यो- विश्वान्देवाना० १४। यमनिऋत्योर्मध्ये - यदृच्छया पर्यटंते सप्तयक्षा महीतले । कौतुकं प्रेक्षितुं तेऽस्मिन् यागे संतु स्थिरा मम । सप्तयक्षेभ्यो० सप्तयक्षानावा० १५। निऋतिवरुणयोर्मध्ये - अनंतो वासुकिश्चैव कालियो मणिभद्रकः । शंखश्च शंखपालश्च कर्कोटकधनंजयौ । धृतराष्ट्रश्च नागेशाः प्रगृह्णंतु ममार्चनम् । सर्पेभ्यो० सर्पाना० १६। वरुणवाय्वोर्मध्ये - उर्वशीप्रमुखाः सर्वाः स्वर्वेश्याः शक्रसत्कृताः । गंधर्वसहिता यांतु मंडले ताः सुशोभनाः । गंधर्वाप्सरोभ्यो० गंधर्वाप्सरस आ० १७। ब्रह्मसोमयोर्मध्ये - त्रियंबकं त्रिपुरुषं नीलग्रीवं सदाशिवम् । रुद्रं पिनाकिनं वंदे भस्मोद्धूलितविग्रहम् । रुद्राय नमः रुद्रं० १८। ब्रह्मेशानयोर्मध्ये - षडाननं चतुर्हस्तं स्कंदं शक्तिधरं गुहम् । पार्वतीशसुतं वंदे कुमारं च शिखिध्वजम् । स्कंदाय० स्कंदं० १९। तत्रैव - शिव - द्वारगतस्त्वं च शिववाहनमुत्तमम् । पार्वत्याः प्रीतिकृन्नित्यं नंदीश्वर नमोस्तु ते । नंदीश्वराय० नंदीश्वरमा० २०। तत्रैव - शूलाय० शूलमा० २१। महाकालाय० महा० २२। तत्रैव - अदितिर्देवमाता त्वं दक्षपुत्री सुशोभना । मंडलेऽस्मिन् समागत्य पूजार्थं सुस्थिरा भव । अदितये नमः अदितिमा० २३। तत्रैव - दक्षोऽसि सर्वकार्येषु महायज्ञकरः प्रियः । ऋषीणां सर्वदा दक्ष त्वां वंदेऽत्र स्थिरो भव । दक्षाय० दक्षमा० २४। ब्रह्मेंद्रयोर्मध्ये - तामग्निवर्णां तपसा ज्वलंतीं सर्वदा शुभाम् । भक्तानां वरदां नित्यं दुर्गां देवीं नमाम्यहम् । दुर्गायै० दुर्गामा० २५। तत्रैव - विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपदैत्यांतं नमामि पुरुषोत्तमम् । विष्णवे० विष्णुमा० २६। ब्रह्माग्न्योर्मध्ये - त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । अतस्त्वां पूजयिष्यामि मंडलेऽस्मिन् स्थिरा भव ॥ स्वधायै० स्वधां० २७। ब्रह्मयमयोर्मध्ये - मृत्युरोगानंतकस्य प्रेष्यान् प्राणहरानृणाम् । मंडले स्थापयाम्यत्र पूजार्थं लोकनाशकान् । मृत्युरोगेभ्यो० मृत्युरोगाना० २८। ब्रह्मनिऋत्योर्मध्ये - कुंकुमाभं सदानंदं भक्तसंकटनाशनम् । चतुर्बाहुं गणपतिं प्रणमामि द्विपाननम् । गणपतये न० गणपतिमा० २९। ब्रह्मवरुणयोर्मध्ये - पावनाः सर्वलोकानां निम्नगाः शुद्धिकारकाः । सर्वपापहराः श्रेष्ठास्ता आपः स्थापयाम्यत्र । अद्भ्यो० अपआ० ३०। ब्रह्मवाय्वोर्मध्ये - सुगंधिनश्च शैलादेर्मंदमंदवहाः सदा । तानहं स्थापयाम्यत्र मरुतो मंडले शुभे । मरुद्भ्यो न० मरुत आ० ३१। ब्रह्मणः पादमूले - सर्वसस्याश्रया भूमिर्वराहेण समुद्रधृता । अनंतफलदात्री या तां नमामि वसुंधराम् । भूम्यै नमः भूमिमावाह० ३२। तत्रैव - गंगा च यमुना चैव गोदा चैव सरस्वती । नर्मदासिंधुकावेर्यौ सप्त नद्यः सरिद्वराः । गंगादिनदीभ्यो० गंगादिनदीरावाह० ३३ तत्रैव - क्षीरोदधिर्दध्युदधिर्घृतोदधिर्मधूदधिः । क्षारोदधिश्चेक्षुरसोदधिः शुद्धोदधिः स्मृताः । सप्तसागरेभ्यो न० सप्तसागरानावा० ३४। तदुपरि - मेरवे० मेरुमा० ३५। ततो मंडलाद्बहिः सोमादिसन्निधौ तत्क्रमेणान्यायुधान्यावाहयेत् । गदायैज नमः गदामा० ३६। त्रिशूलाय० त्रिशूलमा० ३७। वज्राय० वज्रमा० ३८। शक्तये० शक्तिमा० ३९। दंडाय० दंडमा० ४०। खड्गाय० खड्गमा० ४१। पाशाय० पाशमा० ४२। अंकुशाय० अंकुशमा० ४३। तद्बाह्ये पूर्वोक्तक्रमेण - गौतमाय० गौतममा० ४४। भरद्वाजाय० भरद्वाजमा० ४५। विश्वामित्राय० विश्वामित्रमा० ४६। कश्यपाय० कश्यपमा० ४७। जमदग्नये० जमदग्निमा० ४८। वसिष्ठाय० वसिष्ठमा० ४९। अत्रये० अत्रिमा० ५०। अरुंधत्यै० अरुंधतीमा० ५१। तद्बाह्ये पूर्वादिक्रमेण - ऐंद्र्यै० ऐंद्रीमा० ५२। कौमार्यै० कौमारीमा० ५३। ब्राह्यै० ब्राह्मीमा० ५४। वाराह्यै० वाराहीमा० ५५। चामुंडायै० चामुंडामा० ५६। वैष्णव्यै० वैष्णवीमा० ५७। माहेश्वर्यै० माहेश्वरीमा० ५८। वैनायक्यै० वैनायकीमा० ५९। इत्येवं सर्वतोभद्रे लिंगतोभद्रे वा सर्वसाधारणदेवता आवाहयेत् । अथान्वाधाने ब्रह्मादिमंडलदेवताश्चैकैकयाज्याहुत्या यक्ष्ये शेषेणेत्यादि । अथ होमे ब्रह्मादिदेवतानां नाममंत्राः । ब्रह्मणे नमः सोमाय० ईशानाय० इंद्राय० अग्नये० यमाय० निऋतये० वरुणाय० वायवे० अष्टवसुभ्यो० एकादशरुद्रेभ्यो० द्वादशादित्येभ्यो० अश्विभ्यां० विश्वेभ्यो देवेभ्यो० सप्तयक्षेभ्यो० सर्पेभ्यो० गंधर्वाप्सरोभ्यो० रुद्राय० स्कंदाय० नंदीश्वराय० शूलाय० महाकालाय० अदितये० दक्षाय० दुर्गायै० विष्णवे० स्वधायै० मृत्युरोगेभ्यो० गणपतये० अद्भ्यो० मरुद्भ्यो० भूम्यै० गंगादिनदीभ्यो० सप्तसागरेभ्यो० मेरवे० गदायै० त्रिशूलाय० वज्राय० शक्तये० दंडाय० खड्गाय० पाशाय० अंकुशाय० गौतमाय० भरद्वाजाय० विश्वामित्राय० कश्यपाय० जमदग्नये० वसिष्ठाय० अत्रये० अरुंधत्यै० ऐंद्यै० कौमार्यै० ब्राह्यै० वाराह्यै० चामुंडायै० वैष्णव्यै० माहेश्वर्यै० वैनायक्यै नमः । इति मंडलदेवतास्थापनम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP