नक्षत्रजननशांतयः - नागबलिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


नागबलिः दर्शे पौर्णमास्यां पंचम्यामाश्लेषायुतनवम्यां वा कार्यः । तत्र पर्षदं प्रदक्षिणीकृत्य नत्वा तदग्रे गोवृषनिष्क्रयं निधाय ‘ सभार्यस्य ममेह जन्मनि जन्मांतरे वा जातसर्पवधदोषपरिहारार्थं प्रायश्चित्तमुपदिशंतु भवंतः । सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वंतु द्विजसत्तमाः ॥ मयाकृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ पूज्यैः कृतपवित्रोऽहं भवेयं द्विजसत्तमाः । मामनुगृह्णंतु भवंतः ’ इति प्रार्थयेत् । ततो विप्रैः ‘ चतुर्दशकृच्छ्रप्रायश्चित्तेन अमुकप्रत्याम्नायद्वारा पूर्वोत्तरांगसहितेनाचरितेन तव शुद्धिर्भविष्यति तेन त्वंकृतार्थो भविष्यसि ‘ इत्युपदिष्टोयजमानो देशकालौ संकीर्त्य ‘ पर्षदुपदिष्टं चतुर्दशकृच्छ्रप्रायश्चित्तं अमुकप्रत्याम्नायेनाहमाचरिष्ये ’ इति संकल्प्य ‘ यानि कानि च पापानि ’ इत्यादि वपनादि सर्वप्रायश्चित्त विधिवत् सर्वं समाचरेत् । वपनासंभवे द्विगुणः कृच्छ्रप्रत्याम्नायः । एवं प्रायश्चित्तं कृत्वा आचम्य देशकालौ स्मृत्वा मम सर्पवधदोषपरिहारार्थं लोहदंडदानं करिष्ये इति संकल्प्य ब्राह्मणं संपूज्य विष्णो इदं लोहदंडदानं रक्षस्व ‘ विप्राय वेदविदुषे श्रोत्रियाय
कुटुंबिने । नरकोत्तारणार्थाय अच्युतः प्रीयतामिति ॥ ’ इमं मंत्रं पठित्वा ‘ इमं लोहदंडं सदक्षिणं मम सर्पवधदोषपरिहारार्थं सर्पप्रीत्यर्थं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न मम प्रतिगृह्यतां ’ इति दद्यात् ततः ‘ सर्पसंस्कारं करोमि ’ इत्युक्त्वा कुरु इति गुर्वनुज्ञां लब्ध्वा गोधूमव्रीहितिलान्यतमपिष्टेन सर्पाकृतिं कृत्वा शूर्पे निधाय सर्पं प्रार्थयेत् - एहिपूर्वमृतः सर्प अस्मिन् पिष्टे समाविश । संस्कारार्थमहं भक्त्या प्रार्थयामि समाहितः । सर्पाय नमः ध्यायामि सर्पाय नमः आवाहयामि ’ इति षोडशोपचारैः संपूज्य नत्वा ‘ भो सर्प इमं बलिं गृहाण ममाभ्युदयिकं कुरु इति बलिं दत्वा पादौ प्रक्षाल्याचामेत् । ततः देशकालौ स्मृत्वा ‘ सभार्यस्य ममेहजन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा जातसर्पवधदोषपरिहारार्थं सर्पसंस्कारकर्म कर्म करिष्ये ’ इति संकल्प्य ‘ स्थंडिले अग्नये नमः ’ इत्यग्निं प्रतिष्ठाप्य ध्यात्वा समिदद्वयमादाय देशकालौ संकीर्त्य ‘ क्रियमाणे सर्पसंस्कारहोमे देवतापरिग्रहार्थं ’ इत्यादि ‘ चक्षुषी आज्येन ’ इत्यंते अग्नावग्निं वायुं सूर्यं सर्पमुखे प्रजापतिमाज्येन आज्यशेषेण ‘ नात्र स्विष्टकृदादि ’ सर्पं सद्यो यक्ष्ये । इति समिधावग्नावाधाय अग्नेराग्नेय्यां दिशि प्रोक्षितभूमौ चितिं कृत्वा अग्निं चितिं च परिसमुह्य आग्नेयाग्रदर्भैः परिस्तीर्य परिषिच्य प्रोक्षणीस्रुवावित्यादि षटपात्रासादनादि चक्षुषीहोमांतं कृत्वा सर्पं चित्यामारोप्य जलं श्रोत्रं च स्पृष्ट्वा स्रुवेण आज्यमादाय अग्नौ ‘ अग्नये नमः अग्नय इदं न मम वायवे० वायव इदं० सूर्याय० सूर्यायेदं० ’ सर्पमुखे ‘ प्रजापतये० प्रजापतय इदं ’ इत्याज्याहुतीर्हुत्वा आज्यशेषं स्रुवेणैव सर्पदेहे निषिंचेत् । नात्र स्विष्टकृदादि शेषम् । ततः प्रोक्षणीजलैः ‘ सर्पाय नमः ’ इति पाणीना सर्पं प्रोक्ष्य - अग्ने नो रक्ष सर्वस्माद्दोषात्सर्पवधोत्थितात् । दहैनं सर्पमस्माकं कल्याणं कुरु सर्वदा ॥ इति मंत्रेणाग्निं दत्त्वा - त्राहि त्राहि महाभोगिन् सर्पोपद्रवदुः खतः । संततिं देहि मे पुण्यां निर्दुष्टां दीर्घदेहिनीम् ॥ प्रपन्नं पाहि मां भक्त्या कृपालो दीनवत्सल । ज्ञानतोऽज्ञानतो वापि कृतः सर्पवधो मया ॥ जन्मांतरे तथैवास्मिन् मत्पूर्वैरथवा विभो । तत्पापं नाशय क्षिप्रमपराधं क्षमस्व मे । इति संप्रार्थ्य नागेंद्रं स्नात्वाऽऽगत्य ततः पुनः ॥ क्षीराज्येनाग्निं संप्रोक्ष्य हुते सर्पे जलेनाग्निं सिंचेत् सर्वं सर्पसंस्कारं कर्म सव्येनैव । अस्थिसंचयनं न कुर्यात् । ततः स्नात्वा गृहं व्रजेत् । सभार्यस्य कर्तुस्त्रिरात्रमाशौचं ब्रह्मचर्यं च कार्यम् । चतुर्थेहनि सचैलं स्नात्वा घृतपयोभक्ष्यैरष्टौ विप्रान् संतर्पयेत् । तद्यथा - आचम्य देशकालौ संकीर्त्य ‘ क्रियमाणसर्पबल्यंगत्वेन ब्राह्मणाराधनं करिष्ये ’ इति संकल्प्य अष्टौ ब्राह्मणानुदड्मुखानुपवेश्य सर्पस्वरुपिणे ब्राह्मणाय इदं पाद्यं अनंतरुपिणो ब्रा० शेषरुपिणे ब्रा० कपिलरुपिणे ब्रा० नागरुपिणे ब्रा० कालिकरुपिणे ब्रा० शंखपालरुपिणे ब्रा० भूधररुपिणेब्रा० इत्यष्टभ्यो दत्त्वा स्वयं पादौ प्रक्षाल्याचम्य ‘ सर्परुपिणे ब्राह्मणाय इदमासनं अत्रास्यतां ’ एवमेवानंतादीनामासनानि दद्यात् । ततः ‘ सर्पस्थाने क्षणः क्रियतां अनंतस्थाने क्षणः० ’ इत्यादि क्षणं दत्त्वा ‘ ओं तथा ’ इति विप्राः । ‘ प्राप्नोतु भवान् ’ ‘ प्राप्नुवानि ’ इति विप्राः । ‘ भो सर्प इदं तेऽर्घ्यं नमः भो अनंत इदं ते अर्घ्यं नमः ’ इत्यर्घ्याणि सर्वेभ्यो दत्त्वा ‘ भो सर्प इदं ते गंधं नमः ’ इत्यादि गंधं दत्त्वा ‘ भो सर्प माल्यार्थे इदं ते पुष्पं तुलसीपत्रसहितं नमः । भो अनंत० ’ इत्यादि सर्वेभ्यः पुष्पधूपदीपाच्छादानालंकारतांबूलदक्षिणांतानुपचारान् यथाविभवं दद्यात् । ततो मंडलादिपात्रासादनं आमान्नानि यथासोपस्करं चतुर्गुणानि द्विगुणानि समानि वा परिविष्य प्रोक्ष्य तूष्णीं परिषिच्य पाणिभ्यां पात्रमालभ्य ‘ सर्पाय इदमामान्नं यथासोपस्करं परिविष्टं अस्य ब्राह्मणस्य भोजनपर्याप्तममृतरुपेण संपद्यंतां नमो न मम ’ । एवमनंतादिभ्योऽपि दद्यात् । ‘ एको विष्णुर्महद्भूतं ’ इति मंत्रं पठित्वा अनेनामान्ननिवेदनेन भगवान् सर्परुपी परमेश्वरः प्रीयताम् । ततो बलिदानं कुर्यात् । तद्यथा - अद्येत्यादि० ‘ नागबल्यंगभूतं बलिदानं करिष्ये ’ इति संकल्प्य रेखाकरणं प्रोक्षणं च कृत्वा तत्र ‘ भो सर्प अयं ते बलिर्नमो न मम ’ एवं नाममंत्रैरनंतादिभ्यो दत्त्वा ‘ पिंडस्थसर्पादिभ्यश्चंदनं नमः ’ इति वस्त्रपुष्पधूपदीपनैवेद्यतांबूलदक्षिणालंकारोदकुंभादि समर्पयेत् । इदमपि सर्वं सव्येनैव कार्यम् । ततो विप्रेभ्यस्तांबूलदक्षिणां दद्यात् । सर्पस्थानोपविष्टाय ब्राह्मणाय सर्पबलिसांगतासिद्ध्यर्थमिमां सतांबूलदक्षिणां प्रतिपादयामि । एवमनंतादिभ्यो दत्त्वा ‘ दक्षिणाः पांत्विति भवंतो ब्रुवंतु ’ । ‘ पांतु दक्षिणाः ’ इति विप्रा वदेयुः । तत आचार्यं संपूज्य कलशे सुवर्णनागमावाहनाद्यैः षोडशोपचारैः संपूज्य प्रार्थयेत् - ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा १। विष्णुलोके च ये सर्पाः वासुकिप्रमुखाश्च ये । नमोस्तु तेभ्यः० २। रुद्रलोके च ये सर्पास्तक्षकप्रमुखास्तथा । नमो० ३। खांडवस्य तथा दाहे स्वर्गं ये च समाश्रिताः । नमोस्तु० । सर्पसत्रे च ये सर्पा आस्तिकेन च रक्षिताः । नमोस्तु० ५। मलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये । नमोस्तु० ६। धर्मलोके च ये सर्पा वैतरण्यां समाश्रिताः । नमोस्तु० ७। ये सर्पाः पार्वतीयेषु दरीसंधिषु संस्थिताः । नमोस्तु० ८। ग्रामे वा यदिवाऽरण्ये ये सर्पाः प्रचरंति हि । नमोस्तु० ९। पृथिव्यां चैव ये सर्पा ये सर्पा बिलसंस्थिताः । नमोस्तु० १०। रसातले च ये सर्पा अनंताद्या महाबलाः । नमोस्तु० ११। एवं स्तुत्वा देशकालौ स्मृत्वा कृतस्य सर्पसंस्कारकर्मणः सांगतासिद्ध्यर्थं इमं हैमं नागं सकलशं सवस्त्रं सदक्षिणं अमुकगोत्राय शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न मम ‘ प्रतिगृह्यतां ’ इति विप्रहस्ते दद्यात् ‘ अनेन सुवर्णनागदानेनानंतादयः प्रीयंताम् । मया यत्कृतं सर्पसंस्काराख्यं कर्म तद्भवतां विप्राणां वचनात्परमेश्वरप्रसादाच्च सर्वं परिपूर्णमस्तु ‘ तथा ’ इति ते ब्रूयुः । कृतस्य कर्मणः सांगतासिद्ध्यर्थं आमान्नादिना ब्राह्मणांस्तर्पयेत् । यस्य स्मृत्या० मंत्रहीनं क्रियाहीनं० अनेन सर्पसंस्काराख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् तत्सद्ब्रह्मार्पणमस्तु । कृत्वा सर्पस्य संस्कारमनेन विधिना नरः । विरोगो जायते क्षिप्रं संततिं लभते शुभाम् ॥ इति कृत्यदिवाकरे नागबलिप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP