नक्षत्रजननशांतयः - शनिव्रतम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


शनिपीडापरिहारार्थं शनिवारे तैलाभ्यंगस्तैलदानं च दद्यात् । लोहमयं शनिं तैलपूरिते लौहे मृन्मये वा कुंभे निक्षिप्य कृष्णवस्त्राभ्यां कंबलेन वा युतं कृष्णैः सुगंधपुष्यैश्च कृसरान्नैस्तिलौदनैः पूजयित्वा कृष्णाय द्विजाय तदभावेऽन्यस्मै वा स शनिर्देयः । तत्र मंत्रौ - यः पुनर्भ्रष्टराज्याय नलाय परितोषितः । स्वप्ने ददौ निजं राज्यं स मे सौरिः प्रसीदतु ॥ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णांजनमेचकाय । श्रुत्वा रहस्यं भव कामदस्त्वं फलप्रदो मे भव सूर्यपुत्र ॥ इति मंत्राभ्यां सा शनिप्रतिमा देया । एवं व्रतं प्रतिशनिवारं कार्यं तेन शनिपीडापरिहारो भवेत् ॥
॥ इति शनिव्रतम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP