संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|नक्षत्रजननशांतयः| वैधृतिजननशांतिः नक्षत्रजननशांतयः तत्रादौ ज्येष्ठाजननशांतिः मूलजननशांतिः आश्लेषाजननशांतिः पित्राद्येकनक्षत्रजननशांतिः चित्रादिनक्षत्रजननशांतयः व्यतीपातजननशांतिः वैधृतिजननशांतिः भद्राजननशान्तिः अधोमुखजननशांतिः प्रकारांतरेण साधारणज्वरशांतिः ज्वरादिसर्वरोगनाशकानि अनिष्टग्रहपीडापरिहारार्थदानानि शनिव्रतम् अनिष्टग्रहदानसंकल्पः ग्रहाणां जपसंख्या नारायणबलिः नागबलिः व्रतोद्यापनाद्युपयुक्तं मंडलदेवतास्थापनम् व्रतोद्यापनविधिः नक्षत्रजननशांतयः - वैधृतिजननशांतिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत वैधृतिजननशांतिः Translation - भाषांतर तत्र संकल्पादौ ममास्य शिशोः वैधृतिजननसूचितसर्वारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैधृतिजननशांतिं करिष्ये इति संकल्प्य देवतावाहने मध्ये रुद्रं तद्दक्षिणे सूर्यं तदुत्तरे सोमं च आवाहयेत् । रुद्रसूर्ययोर्मंत्रौ पूर्वोक्तावेव ग्रहयज्ञे भद्राशांतौ च सोमस्य तु दधिशंखतुषाराभमिति मंत्रः रुद्रप्रतिमां स्पृष्ट्वा पूर्वोक्तमृत्युंजयमंत्रजपः सूर्यप्रतिमां स्पृष्ट्वा पूर्वोक्तसूर्यस्तोत्रजपः सोमप्रतिमां स्पृष्ट्वा रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥ इति मंत्रजपश्च कार्यः । अन्वाधाने - ‘ रुद्रं प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः समिदाज्यतंडुलाहुतिभिः, सूर्यं सोमं च प्रतिद्रव्यं अष्टाविंशतिसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, मृत्युंजयं अष्टोत्तरशतसंख्याभिः तिलाहुतिभिः ’ इति विशेषः । शेषेण स्विष्टकृतमित्यादिसर्वं व्यतीपातशांतिवदविकृतं होमतंत्रं समापनीयम् ॥ ॥ इति वैधृतिशांतिप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP