नक्षत्रजननशांतयः - पित्राद्येकनक्षत्रजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


मातापितृनक्षत्रोत्पत्तौ गोमुखप्रसवं कृत्वा भ्रातृनक्षत्रोत्पत्तौ तमकृत्वा कर्ता देशकालौ संकीर्त्य अस्य शिशोः पित्राद्येकनक्षत्रोत्पत्तिसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं पित्राद्येकनक्षत्रजननशांतिं करिष्ये तदंगतयादौ गणपतिपूजनं पुण्यहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तानि कुर्यात् । तत आचार्यः अद्येत्यादि० अस्मिन् एकनक्षत्रजननशांतिकर्मणि यजमानेनेति कर्म संकल्प्य यदत्रेति सर्षपविकिरणादि भूप्रादेशांतं कृत्वा अग्न्यायतनात्प्राच्यां ईशान्यां वा सर्वसस्याश्रया भूमिः इत्यादिमंत्रैर्विधिवत्कलशं संस्थाप्य पूर्णपात्रोपरि जन्मनक्षत्रप्रतिमां तदृक्षमंत्रेण नाममंत्रेण वाऽऽवाह्य पूजयेत् । पूजायां रक्तवस्त्रं श्वेतवस्त्रं च दद्यात् । ततो वरदनामाग्निं प्रतिष्ठाप्य ग्रहानावाह्य संपूज्य अन्वादध्यात् । समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे एकनक्षत्रजननशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा अत्र प्रधानं - सूर्यादि नवग्रहान् प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः समित्तंदुलाज्याहुतिभिः, अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः समित्तंदुलाज्याहुतिभिः, विनायकादिदेवताः इंद्रादिलोकपालांश्च प्रत्येकं प्रतिद्रव्यं अमुकसं० पूर्वोक्तद्रव्याहुतिभिः, अमुकनक्षत्रं तद्देवतां वा प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः समित्तंदुलाज्याहुतिभिर्यक्ष्ये, शेषेण स्विष्टकृतमित्यादि चक्षुषीहोमांतं कृत्वा प्रधानहोमं कुर्यात् । यथाऽन्वांधानं ग्रहहोमं कृत्वा नक्षत्रहोमं समाप्य स्विष्टकृदादि प्रायश्चित्तहोमांतं कृत्वा बलिदानं कुर्यात् । तद्यथा - अद्येत्यादि० कृतस्यैकनक्षत्रजननशांतिकर्मणः सांगतासिद्ध्यर्थं इंद्रादि लोकपालप्रीत्यर्थं आदित्यादि नवग्रहप्रीत्यर्थं पित्रपत्ययोः ( मात्रपत्ययोर्वा ) जननैकनक्षत्रदेवताप्रीत्यर्थं बलिदानानि करिष्ये इति संकल्प्य इंद्रादिदेवताभ्यो ग्रहेभ्यो नक्षत्रदेवतायै क्षेत्रपालाय च सदीपमाषपिष्टबलीन् दत्त्वा पूर्णाहुतिं हुत्वा प्रणीतानिनयनादि कर्मशेषं समाप्य स्थापितदेवताः पंचोपचारैः संपूज्य विसृज्य च तत्कलशोदकेन पितृपुत्रादीनभिषिंचेत् । ततो यजमानः अद्येत्याद्युक्त्वा कृतस्यैतस्य शांतिकर्मणः सांगतासिद्ध्यर्थं आचार्यादिपूजां करिष्ये इति संकल्प्य आचार्याय पूजापूर्वकं सवस्त्रालंकारां गां दत्त्वा ऋत्विग्भ्यश्च माषत्रयपरिमितसुवर्णं तन्निष्क्रयद्रव्यं वा दक्षिणां च दत्त्वा प्रतिमां विसृज्य आचार्याय दत्त्वा तस्मै यथाशक्ति धान्यवस्त्रयानशय्यासनानि दत्त्वा अग्निं संपूज्य विभूतिं धृत्वा होमफलं ( श्रेयो ) गृहीत्वा ब्राह्मणान् संतर्प्य यस्य स्मृत्येति कर्मेश्वराय समर्प्य सुह्रद्भिः सह भुंजीत ॥ इति कृत्यदिवाकरे मध्यमांशौ पित्राद्येकनक्षत्रजननशांतिप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP