मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र

श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


ध्यान
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम् ।
ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम् ॥
॥मूल-पाठ ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फल-सिद्धये ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥१॥
त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥२॥
हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चितः ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥३॥
महिषस्य वधे देव्या गण-नाथः प्रपुजितः ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥४॥
तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥५॥
भास्करेण गणेशो हि पूजितश्छवि-सिद्धये ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥६॥
शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायकः ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥७॥
पालनाय च तपसां विश्वामित्रेण पूजितः ।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे ॥८॥
इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,
एक-वारं पठेन्नित्यं वर्षमेकं सामहितः ।
दारिद्र्य दारुणं त्यक्त्वा कुबेर-समतां व्रजेत् ॥

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP