संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ९२ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ९२ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ९२ Translation - भाषांतर पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥१॥पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् ।इन्द्र इति ब्रवीतन ॥२॥इन्द्र इन्नो महानां दाता वाजानां नृतुः ।महाँ अभिज्ञ्वा यमत् ॥३॥अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः ।इन्दोरिन्द्रो यवाशिरः ॥४॥तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये ।तदिद्ध्यस्य वर्धनम् ॥५॥अस्य पीत्वा मदानां देवो देवस्यौजसा ।विश्वाभि भुवना भुवत् ॥६॥त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।आ च्यावयस्यूतये ॥७॥युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् ।नरमवार्यक्रतुम् ॥८॥शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम ।अवा नः पार्ये धने ॥९॥अतश्चिदिन्द्र ण उपा याहि शतवाजया ।इषा सहस्रवाजया ॥१०॥अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।जयेम पृत्सु वज्रिवः ॥११॥वयमु त्वा शतक्रतो गावो न यवसेष्वा ।उक्थेषु रणयामसि ॥१२॥विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।अगन्म वज्रिन्नाशसः ॥१३॥त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।न त्वामिन्द्राति रिच्यते ॥१४॥स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा ।धियाविड्ढि पुरंध्या ॥१५॥यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।तेन नूनं मदे मदेः ॥१६॥यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।य ओजोदातमो मदः ॥१७॥विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।विश्वासु दस्म कृष्टिषु ॥१८॥इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।अर्कमर्चन्तु कारवः ॥१९॥यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।इन्द्रं सुते हवामहे ॥२०॥त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।तमिद्वर्धन्तु नो गिरः ॥२१॥आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।न त्वामिन्द्राति रिच्यते ॥२२॥विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।य इन्द्र जठरेषु ते ॥२३॥अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।अरं धामभ्य इन्दवः ॥२४॥अरमश्वाय गायति श्रुतकक्षो अरं गवे ।अरमिन्द्रस्य धाम्ने ॥२५॥अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि ।अरं ते शक्र दावने ॥२६॥पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः ।अरं गमाम ते वयम् ॥२७॥एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।एवा ते राध्यं मनः ॥२८॥एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।अधा चिदिन्द्र मे सचा ॥२९॥मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।मत्स्वा सुतस्य गोमतः ॥३०॥मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् ।त्वा युजा वनेम तत् ॥३१॥त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।त्वमस्माकं तव स्मसि ॥३२॥त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।सखाय इन्द्र कारवः ॥३३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP