संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६६ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६६ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६६ Translation - भाषांतर तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥१॥न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥२॥यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥३॥निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे ।वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥४॥यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् ।वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥५॥सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥६॥वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥७॥वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥८॥कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥९॥कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् ।इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ॥१०॥वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥११॥पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः ।तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥१२॥वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि ।नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥१३॥त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥१४॥सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP