संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६ Translation - भाषांतर महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।स्तोमैर्वत्सस्य वावृधे ॥१॥प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।विप्रा ऋतस्य वाहसा ॥२॥कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।जामि ब्रुवत आयुधम् ॥३॥समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।समुद्रायेव सिन्धवः ॥४॥ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।इन्द्रश्चर्मेव रोदसी ॥५॥वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।शिरो बिभेद वृष्णिना ॥६॥इमा अभि प्र णोनुमो विपामग्रेषु धीतयः ।अग्नेः शोचिर्न दिद्युतः ॥७॥गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।कण्वा ऋतस्य धारया ॥८॥प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।प्र ब्रह्म पूर्वचित्तये ॥९॥अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।अहं सूर्य इवाजनि ॥१०॥अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।येनेन्द्रः शुष्ममिद्दधे ॥११॥ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।ममेद्वर्धस्व सुष्टुतः ॥१२॥यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।अपः समुद्रमैरयत् ॥१३॥नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।वृषा ह्युग्र शृण्विषे ॥१४॥न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।न विव्यचन्त भूमयः ॥१५॥यस्त इन्द्र महीरप स्तभूयमान आशयत् ।नि तं पद्यासु शिश्नथः ॥१६॥य इमे रोदसी मही समीची समजग्रभीत् ।तमोभिरिन्द्र तं गुहः ॥१७॥य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।ममेदुग्र श्रुधी हवम् ॥१८॥इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।एनामृतस्य पिप्युषीः ॥१९॥या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।परि धर्मेव सूर्यम् ॥२०॥त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।त्वां सुतास इन्दवः ॥२१॥तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।यज्ञो वितन्तसाय्यः ॥२२॥आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।उत प्रजां सुवीर्यम् ॥२३॥उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।अग्रे विक्षु प्रदीदयत् ॥२४॥अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।यदिन्द्र मृळयासि नः ॥२५॥यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।महाँ अपार ओजसा ॥२६॥तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।उरुज्रयसमिन्दुभिः ॥२७॥उपह्वरे गिरीणां संगथे च नदीनाम् ।धिया विप्रो अजायत ॥२८॥अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति ।यतो विपान एजति ॥२९॥आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।परो यदिध्यते दिवा ॥३०॥कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।उतो शविष्ठ वृष्ण्यम् ॥३१॥इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।उत प्र वर्धया मतिम् ॥३२॥उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।विप्रा अतक्ष्म जीवसे ॥३३॥अभि कण्वा अनूषतापो न प्रवता यतीः ।इन्द्रं वनन्वती मतिः ॥३४॥इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।अनुत्तमन्युमजरम् ॥३५॥आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।इममिन्द्र सुतं पिब ॥३६॥त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।हवन्ते वाजसातये ॥३७॥अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।अनु सुवानास इन्दवः ॥३८॥मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।मत्स्वा विवस्वतो मती ॥३९॥वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।वृत्रहा सोमपातमः ॥४०॥ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।इन्द्र चोष्कूयसे वसु ॥४१॥अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः ।शतं वहन्तु हरयः ॥४२॥इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।कण्वा उक्थेन वावृधुः ॥४३॥इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।इन्द्रं सनिष्युरूतये ॥४४॥अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।सोमपेयाय वक्षतः ॥४५॥शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।राधांसि याद्वानाम् ॥४६॥त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।ददुष्पज्राय साम्ने ॥४७॥उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।श्रवसा याद्वं जनम् ॥४८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP