संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ७४ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ७४ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ७४ Translation - भाषांतर विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१॥यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।प्रशंसन्ति प्रशस्तिभिः ॥२॥पन्यांसं जातवेदसं यो देवतात्युद्यता ।हव्यान्यैरयद्दिवि ॥३॥आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥४॥अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।घृताहवनमीड्यम् ॥५॥सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।जुह्वानासो यतस्रुचः ॥६॥इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥७॥सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया ।तया वर्धस्व सुष्टुतः ॥८॥सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।दधीत वृत्रतूर्ये ॥९॥अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥१०॥यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः ।स पावक श्रुधी हवम् ॥११॥यं त्वा जनास ईळते सबाधो वाजसातये ।स बोधि वृत्रतूर्ये ॥१२॥अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥१३॥मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥१४॥सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् ।नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP