संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०७६

खण्डः १ - अध्यायः ०७६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
ब्राह्मस्य दिवसस्यान्ते यादृशी द्विज जायते॥
जगतोऽस्य समावस्था तादृशीं वक्तुमर्हसि ॥१॥
मार्कण्डेय उवाच॥
वृत्ते प्रक्षालने राजन्कल्पस्यान्ते चतुर्दिशम्॥
उत्तिष्ठंति तदा घोरा दिवि सप्त दिवाकराः ॥२॥
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम्॥
विनाशे सर्वभूतानामयोगुडसमा तदा ॥३॥
भूमिर्भवति भूपाल दग्धास्सर्वे च जन्तवः॥
विनष्टकिल्बिषास्सर्वे जीवमात्रावशेषकाः ॥४॥
जनलोकमथासाद्यतत्र तिष्ठन्ति निर्भयाः॥
भूर्भुवस्स्वर्महश्चैव तदा नश्यन्ति पार्थिव ॥५॥
जनलोकादयो लोका न तु नश्यन्ति पार्थिव॥
ततोऽर्कास्ते तु नश्यन्ति संहिता रुद्रतेजसा ॥६॥
उत्तिष्ठन्ति महारौद्रास्ततो दिविचरा घनाः॥
केचिदञ्जनपुञ्जाभाः केचिद्गजकुलोपमाः ॥७॥
केचित्पुरवराकाराः केचिद्धारिद्रसन्निभाः॥
हरितालाञ्जनप्रख्यास्तथा हिङ्गुलकप्रभाः ॥८॥
शुकपत्रनिभाः केचित्केचिन्नीलोत्पलप्रभाः॥
विद्युन्माला विनद्धाङ्गा गर्जन्तोऽथ बलाहकाः ॥९॥
आक्रम्य गगनं राजन्पूरयन्ति महीतलम्॥
गङ्गाप्रवाहप्रतिमैर्धारापातैः पुनःपुनः ॥१०॥
ततस्समुद्रा भूपाल वेलोद्भेदतरङ्गिणः॥
छादयन्ति महीं सर्वां दग्धां सूर्यगभस्तिभिः ॥११॥
ततस्संवर्तको वायुर्घनानारुजति क्षणात्॥
ततो वायुं समादाय स्वशरीरे पितामहः ॥१२॥
स्वपित्येकार्णवे लोके नष्टस्थावरजङ्गमे॥
नष्टचन्द्रार्कपवने ग्रहनक्षत्रतारके ॥१३॥
सुप्त्वा युगसहस्रं तु देवदेवो जगत्पतिः॥
पुनर्विबुद्धः कुरुते सृष्टिं प्राग्वत्पितामहः ॥१४॥
सृष्टिं करोति धर्मज्ञ कल्पेकल्पे पुनःपुनः॥
पितामहस्य रात्र्यन्ते तस्माद्धि सृजति प्रजाः ॥१९॥
जन्तूनां जननाद्राजञ्जन इत्यभिधीयते ॥१६॥
एतावदुक्तं तव भूमिपाल कल्पे गते यद्भवतीह लोके॥
अतः परं सर्वयदुप्रधान वदस्व किं ते कथयामि राजन् ॥१७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कल्पान्तवर्णनो नाम षट्सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP