संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
प्रथमोऽध्यायः

प्रथम खण्डः - प्रथमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


श्रीगणेशाय नमः ॥
श्रीनारायणाय नमः ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
कृतवर्मा तथा भोजः श्वेतो माहिष्मतीपतिः ॥
कुलिन्दः सर्वदमनो मालविश्चन्द्रवर्द्धनः ॥२॥
वत्सनाभश्च बाणश्च नन्दीशो दरसत्पतिः ॥
प्रतिसारश्चित्रधनुस्सर्वो वायुरथस्तथा ॥३॥
द्रविडः कुसुमापीड ओत्रश्च समरप्रियः ॥
शम्भुः किरातराजश्च औरसो नन्दिवर्धनः ॥४॥
वटुमूलश्च तूनेशः शाल्वश्च जनमेजयः ॥
सुह्यराजो दधीकर्णो बाह्लीको दमनस्तथा ॥५॥
हिरण्यनाभः कौसल्यो दाशार्हो विजयस्तथा॥
एते चान्ये च राजानः शतशो बहुदक्षिणाः ॥६॥
सम्पूर्णचन्द्रवदना गजराजकरोरवः ॥
उपासांचक्रिरे वज्रं सिहासनगता नृपाः ॥७॥
बहुभिर्भूमिपालैश्च तथा वज्रेण धीमता ॥
युधिष्ठिरेण च सदा शोभिता शुशुभे सभा ॥८॥
राजानस्ते ततो दृष्ट्वा ऋषीन्दुर्लभदर्शनान्॥
ब्रह्मलोकस्थमात्मानममन्यन्त यशोभृतः ॥९॥
ऊचुस्ते प्रणयाद्वाक्यं वज्रं भूरिसहस्रदम् ॥
यथा त्रेतायुगे राजन्द्वापरे च यथा नृपाः ॥
ब्राह्मणा ब्रह्मकल्पाश्च तथैव सुसमागताः ॥१०॥
अस्मिंस्तिष्ये च संप्राप्ते तव राजन्प्रसादतः ॥
राजन् कृष्णसगोत्रोऽसि तेनेयन्ते सभा नृप ॥११॥
उपास्यते महाभागैर्ब्रह्मकल्पैस्तपोधनैः ॥
....... . . .. न तथा वीर्यनिर्जिता ॥१२॥
भक्त्या यथा तु तस्यैव कृष्णस्यामिततेजसः ॥
तेन कृष्णेन ये चक्रुर्व्यतीताः पूर्वपार्थिवाः ॥१३॥
वर्त्तता तेन कृष्णेन ते राजन्मोक्षमाप्नुयुः॥
अथ तिष्ययुगः प्राप्तो घोरः परमदारुणः ॥१४॥
दुर्लभं दर्शनं यत्र नृपसंघे महात्मनाम् ॥१५॥
तस्मात्त्वं राजशार्दूल प्रष्टुमर्हो द्विजोत्तमान् ॥
वैष्णवान्विविधान्धर्मान्सरहस्यान्ससंग्रहान् ॥१६॥
इत्येवमुक्तो वज्रस्तैस्त्यक्त्वा सिंहासनं तदा ॥
वज्रं तु प्राञ्जलिं दृष्ट्वा सर्व एव नराधिपाः ॥१७॥
वरासनान्विहायाशु तस्थुः प्राञ्जलयस्तदा ॥
वज्र उवाच ॥भवद्भिर्नृपशार्दूलाः प्रार्थिता ये द्विजाः श्रिताः ॥१८॥
अनुग्रहार्थं भूपानां जगतो हितकाम्यया ॥
भवन्तो वक्तुमर्हन्ति विष्णुधर्मान्सनातनान् ॥१९॥
तस्मात्तिष्ययुगे नास्ति भवतो दर्शनं नृपैः ॥
ऋषय ऊचुः ॥
उत्तिष्ठ त्वं महीपाल अलङ्कुरु स्वमासनम् ॥२०॥
श्रवणेपि वयं तस्य विशेषेणार्थिता नृप ॥
वज्र ते संशयान्सर्वाञ्छेत्स्यत्येष महामुनिः ॥२१॥
इत्येवमुक्त्वा वज्रं ते ऋषयस्तपसि स्थिताः ॥
मार्कण्डेयमथोचुस्ते ब्रूहि धर्मान्महीपते ॥२२॥
वैष्णवान्विविधान्धर्मांल्लोकानामघहारिणः॥
तथा पार्थिवसंघस्य संशयान् मनसि स्थितान् ॥२३॥
मार्कण्डेय उवाच॥
ब्रह्मण्यः सत्यवान् धन्यः सर्वशत्रुनिबर्हणः॥
यद्यत्पृच्छसि मां वज्र तत्तद्वक्तास्म्यसंशयम् ॥२४॥
सिहासनस्थो भव भूमिपाल क्वैत्रकारुत्व भवन्तु सर्वेऽपि तथा महीपाः ॥
सुखोपविष्टैरिह भूमिपालैः स्वसंशयान् ब्रूहि यथाप्रकामम् ॥२५॥
इत्येवमुक्तः स यदुप्रधानो भृगुप्रबर्हेण महर्षिमध्ये ॥
प्रणम्य विप्रान्स जगाम राजा सिंहासनं रत्नसहस्रचित्रम् ॥२६॥
सिंहासनस्थे नृपवर्यमुख्ये सिंहासनस्थाः क्षितिपप्रधानाः ॥
सर्वे बभूवुः प्रणतास्तथा च शुश्रूषवो ब्राह्मणमुख्यवाक्यम् ॥२७॥
वज्र उवाच ॥
आचक्ष्व मह्यं भृगुवंशचन्द्र समुद्भवं त्वं जगतो यथावत् ॥।
शृण्वंति मे ब्राह्मणसंघमुख्या नरेंद्रमुख्याश्च वचस्त्वदीयम् ॥२८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कथाप्रस्तावनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP