TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
सप्तविंशतितमोऽध्यायः

प्रथम खण्डः - सप्तविंशतितमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
सप्तविंशतितमोऽध्यायःसप्तविंशतितमोऽध्यायः

सप्तविंशतितमोऽध्यायः
मार्कण्डेय उवाच ॥
नाकपृष्ठगता भूमिर्ददर्श मधुसूदनम् ॥
रत्नासनगतं वीरं श्रिया परमया युतम् ॥१॥
उपास्यमानं त्रिदशैर्भासयन्तं सभां शुभाम् ॥
आदित्यैर्वसुभिः साध्यैर्विश्वेदेवैर्मरुद्गणैः ॥२॥
रुद्रैर्भृग्वङ्गिरोभिश्च नासत्यैश्च महात्मभिः ॥
ऋषिभिः सूर्यसंकाशैस्तपसा द्योतितप्रभैः ॥३॥
गन्धर्वैरप्सरोभिश्च स्तूयमानं सहस्रशः ॥
किरीटोत्तमसंच्छन्नं हारकेयूरभूषितम् ॥४॥
रत्नाङ्गदकृतोद्द्योतं रत्नगर्भसमप्रभम् ॥
हरिचन्दन दिग्धांगं नीलाम्बरधरं हरिम् ॥५॥
तिर्यग्ललाटकेनाऽक्ष्णा तृतीयेन विराजितम् ॥
पश्यन्तं सर्वलोकस्य सततं धर्मकर्मणी ॥६॥
विष्णोरचिन्त्यमङ्गं तत्त्रैलोक्यस्यैव कारणम् ॥
गोब्राह्मणहितासक्तं ददर्श वसुधा तदा ॥७॥
सन्ध्यासह समासीनं श्रिया चैव जनार्दनम् ॥
तं ववन्दे वसुमती दैत्यभारभरार्दिता ॥८॥
पाद्यार्घ्याचमनीयाद्यैः शक्रोऽपि वसुधां तदा ॥
पूजयित्वा सुखासीनां पप्रच्छागमनक्रियाम् ॥९॥
पृष्टा शक्रेण सा देवी वक्तुं समुपचक्रमे ॥१०॥
पृथिव्युवाच ॥
अन्तरिक्षं दिवं यच्च तथैवाऽहं जगत्पते ॥
तवायत्ता महाभाग त्वं हि देवेश्वरो विभुः ॥११॥
त्वयि भारं समासज्य वेदाभ्यसनतत्परः ॥
सुखमास्ते प्रशान्तात्मा ब्रह्मा शुभचतुर्मुखः ॥१२॥
त्वयि भारं समासज्य देवदेवोऽपि शङ्करः ॥
आस्ते तपस्यभिरतः कैलासे पर्वतोत्तमे ॥१३॥
त्वयि भारं समासज्य सुखं स्वपिति केशवः ॥
क्षीरोदशयने नित्यं शेषपर्यङ्कमा स्थितः ॥१४॥
पितामहस्य यत्तेजः केशवस्य शिवस्य च ॥
स्थितं तत्सकलं तुभ्यं त्वं हि सर्वमयोऽरिहा ॥१५॥
त्वया विनिहतो वृत्रो बलश्चापि निषूदितः ॥
त्वया च नाशितः पाकस्त्वया दैत्या निषूदिताः ॥१६॥
ब्रह्मण्यस्त्वं शरण्यस्त्वं प्रणतार्तिविनाशनः ॥
सहस्रनयनः श्रीमान्वज्रपाणिर्जगत्प्रियः ॥१७॥
तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ॥
त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते ॥१८॥
वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ॥
वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा ॥१९॥
ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ॥
त इमे नृषु सम्भूताः कार्तवीर्यं समाश्रिताः ॥२०॥
तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ॥
साऽहं भारसमाक्रान्ता त्वामद्य शरणं गता ॥२१॥
 ॥शक्र उवाच ॥
जानामि भारखिन्नां त्वां दैत्येभ्यो वरवर्णिनि ॥
तेषां गत्वा वधोपायमहं प्रष्टास्मि वेधसम् ॥२२॥
मार्कण्डेय उवाच ॥
इत्येवमुक्त्वा त्रिदशप्रधानः पृध्वीसमेतो गुरुणा च राजन् ॥
ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः ॥२३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः ॥२६॥
२७
 ॥मार्कण्डेय उवाच  ॥
ते समेताः समासाद्य पितामहसभां शुभाम् ॥
पद्मासनगतं तत्र ददृशुः पद्मसम्भवम् ॥१॥
पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ॥
चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम् ॥२॥
चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ॥
कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि ॥३॥
स्वयंभुवमचिन्त्यं च सर्गसंहारकारकम् ॥
तं समासाद्य जगती शक्रश्च गुरुणा सह ॥४॥
ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ॥
शक्रादय ऊचुः ॥
नमस्ते देवदेवेश सृष्टिसंहारकारण! ॥
वेदमूर्ते तदाधार यज्ञ यज्ञांग यज्ञप ॥५॥
यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ॥
प्रजापतिपते देव जगद्बीज नमोऽस्तु ते ॥६॥
स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ॥
सर्वभूतवरेण्याय सर्वभूतेश्वराय च ॥७॥
अचिन्त्यायाऽप्रमेयाय प्रकाशाय महात्मने ॥
त्वमस्य जगतो नाथस्त्वयि सर्वं प्रतिष्ठितम् ॥८॥
त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ॥
इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरश्च यत् ॥९॥
व्यक्ताव्यक्तो जगन्नाथ त्वमेवैकः प्रकीर्तितः ॥
त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च ॥१०॥
कलाः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ॥
कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः ॥११॥
त्वमेव वरदो दाता देवः शुभचतुर्मुखः ॥
त्वत्तः प्रसूतौ लोकेऽस्मिन्धर्मरुद्रौ जगत्पते ॥१२॥
भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥
अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते ॥१३॥
सनत्कुमारो भगवान्सनकश्च सनन्दनः ॥
आकृतिश्च रुचिः श्रद्धा त्वया देव विनिर्मिता ॥१४॥
पूर्वात्ते वदनाज्जातमृग्वेदममृतप्रभम् ॥
दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च ॥१५॥
पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ॥
उत्तराद्वदनाज्जातमथर्वागिरसं शुभम् ॥१६॥
ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्त्रियास्तथा ॥
ऊरुद्वयात्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च ॥१७॥
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ॥
त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि ॥१८॥
स्वयम्भूर्भगवान्विष्णुर्देवदेवः सनातनः ॥
नाममात्रविभेदेन मोहयस्यखिलं जगत् ॥१९॥
त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ॥
ते क्षितौ क्षत्त्रिया जाताः पीडयन्ति तथा क्षमाम् ॥२०॥
तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ॥
वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते ॥२१॥
मार्कण्डेय उवाच ॥
एवं पितामहो देवः स्तुतः शक्रेण धीमता ॥
गुरुणा च समेतेन पूजयामास तावुभौ ॥२२॥
पूजयित्वा च वसुधां शक्रं वचनमब्रवीत् ॥
व्रजध्वं देवदेवस्य शङ्करस्य महात्मनः ॥२३॥
भुवश्चिकीर्षितं सर्वं निवेदयत मा चिरम् ॥
उपायं क्षत्रियवधे युष्माकं कथयिष्यति ॥२४॥
इत्येवमुक्तास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ॥
शक्रोऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स धर्मशीलः ॥२५॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः ॥२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-23T11:13:32.4500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोबार

  • न ( कों . ) नदी व समुद्र यांच्या संगमाजवळचें स्थान ; मोठें बंदर ; खाडी ओलांडण्याची जागा ; खाडीचें तोंड . कदाचित वखारीस जागा देणें झाली तर खाडीचे मोबारी समुद्रतीरीं न द्यावी . - मराआ २१ . [ अर . मअवर ] 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site