संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०३५

खण्डः १ - अध्यायः ०३५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तमम्॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम् ॥१॥
ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम्॥
ततोष्टनवतिं पुत्रान्गोत्रकारान्पृथक्पृथक् ॥२॥
गाधेरपि तदा भार्या जनयामास पुत्रकम्॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा ॥३॥
जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः ॥४॥
राजा प्रसेनजिन्नाम सुतां तस्याऽथ रेणुकाम्॥
पत्न्यर्थे प्रतिजग्राह जमदग्निर्महातपाः ॥५॥
सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने॥
कदाचिदथ घर्मर्तौ मध्यं प्राप्ते दिवाकरे ॥६॥
क्रीडार्थं प्रास्यति चिरं जमदग्निर्महातपाः॥
क्षिप्ताःक्षिप्ताः शरास्तेन रेणुका चारुलोचना ॥७॥
आनयामास धर्मज्ञा भर्तुर्वचनकारिणी॥
अथाऽर्कतापसंतप्ता दह्यमानांघ्रिपङ्कजा ॥८॥
पुष्पितस्य च वृक्षस्य छायामासाद्य विष्ठिता॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम् ॥९॥
तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१०॥
न बिभेषि च मां भद्रे त्वथ वाप्यवमन्यसे ॥११॥
रेणुकोवाच॥
अर्काग्नितापसंतप्ता क्षणमात्रं महाव्रत॥
अपारयंती विश्रान्तो तस्मात्त्वं क्षन्तुमर्हसि ॥१२॥
 ॥मार्कण्डेय उवाच ॥
रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः॥
जातरोषस्तदा सूर्ये सायकान्क्षेप्तुमुद्यतः ॥१३॥
एतस्मिन्नेव काले तु विप्ररूपो दिवाकरः॥
शीघ्रमागम्य तेजस्वी जमदग्निमभाषत ॥१४॥
सूर्य उवाच ॥
स्वभाव एष मे ब्रह्मन् यदहं दहनात्मकः॥
वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि ॥१५॥
पुत्रस्तेऽहं भविष्यामि त्वस्यामेव द्विजोत्तम॥
सुरकार्यं करिष्यामि लोकानाञ्च हितं महत् ॥१६॥
इयञ्च पत्नी धर्मज्ञा रेणुका तव सांप्रतम्॥
छत्रोपानहमेतन्मे गृह्णातु वरवर्णिनी ॥१७॥
तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्मुपानहौ॥
मया सृष्टौ जगत्यस्मिन्नित्यमेव भविष्यतः ॥१८॥
छत्रोपानहयोर्दानं लोके श्रेष्ठं भविष्यति॥
छत्रोपानहदानेन नरः स्वर्गं गमिष्यति ॥१९॥
एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः॥
संपूज्य सूर्यं जग्राह सवितुः सकलं वचः ॥२०॥
ततः सूर्ये गते देवी सूर्यपुत्रा पुरा सती॥
पुत्रं कनीयसं रामं जनयामास रेणुका॥
तमन्वावसुषेणश्च वसुर्विश्वावसुस्तथा ॥२१॥
तेषां जघन्यजो रामो विष्णुर्मानुषरूपधृक् ॥२२॥
अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव॥
हृताञ्च मेने दितिजप्रजातां पीडां नृणां स्वस्य च सा धरित्री ॥२३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : November 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP