संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकविंशतितमोऽध्यायः

प्रथम खण्डः - एकविंशतितमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
गङ्गा विष्णुपदी लोके किमर्थं कथिता बुधैः ॥
तन्ममाचक्ष्व तत्त्वेन भृगुवंशविवर्धन! ॥१॥
मार्कण्डेय उवाच ॥
स्वायम्भुवेन्तरे पूर्वं चत्वारो देवतागणाः ॥
जयाख्याश्चाजिताख्याश्च शुक्राख्याश्च प्रकीर्तिताः ॥२॥
तेषां बभूव देवेन्द्रो विश्वभुग्लोकपूजितः ॥
आसंस्तस्या सुरा घोरास्तदा दायादबान्धवाः ॥३॥
बभूव राजा तेषां च बाष्कलिर्न्नाम नामतः ॥
येन विक्रम्य शक्रस्य हृतं राज्यं तदा बलात् ॥४॥
हृतराज्यस्तु देवेन्द्रो ब्रह्माणं शरणं गतः ॥
ब्रह्मापि शक्रमादाय जगाम शरणं हरिम् ॥५॥
निवेदयामास तदा देवदेवाय शार्ङ्गिणे ॥
बाष्कलेर्विजयं सर्वं ब्रह्मा शुभचतुर्मुखः ॥६॥
श्रीभगवानुवाच ॥
ब्रह्मन्प्रत्याहरिष्यामि राज्यमस्य शतक्रतोः ॥
दिवि देवेषु धर्मात्मन्निवृत्तो भव मा चिरम् ॥७॥
अहं वामनरूपेण प्रयास्ये बाष्कलिं नृपम् ॥
मां दृष्ट्वा विस्मितं तन्तु गत्वा याचतु देवराट् ॥८॥
लोकत्रयं मम हृतं त्वया विक्रम्य बाष्कले ॥
तत्राग्निशरणार्थाय दीयतां मे क्रमत्रयम् ॥९॥
अतीव ह्रस्वगात्रस्य वामनस्यास्य मा चिरम् ॥
एवमुक्तस्तु शक्रेण तदा दाता क्रमत्रयम् ॥१०॥
मार्कण्डेय उवाच  ॥
इत्येवमुक्तो देवेन ब्रह्मा स्वभवनं गतः ॥
देवोऽपि वामनो भूत्वा प्रयातो यत्र बाष्कलिः ॥११॥
बाष्कलिर्वामनं दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥
निरीक्ष्य तं यथाकाममसुरैर्बहुभिर्वृतः ॥१२॥
एतस्मिन्नेव काले तु शक्रस्तं देशमाययौ ॥
पाद्यार्घ्याचमनीयाद्यैः शक्रं संपूज्य बाष्कलिः ॥१३॥
किमागमनकार्यं ते तमुवाच प्रहृष्टवाक् ॥
अत्याश्चर्यमिदं मन्ये तवागमन कारणम् ॥१४॥
शक्र उवाच ॥
लोकत्रयं मेऽपहृतं विक्रमेण तु बाष्कले! ॥
तत्राग्निशरणार्थाय दीयतां मे क्रमत्रयम् ॥१५॥
अतीव ह्रस्वगात्रस्य वामनस्यास्य पार्थिव ॥
भूमिभागे तु पारक्ये वस्तुं न त्वहमुत्सहे ॥१६॥
बाष्कलिरुवाच ॥
क्रमत्रयं वामनके देवराज कृतं शुभम् ॥
तत्रास्स्वमुदितः प्राप्तः सुखी सुरपते भव ॥१७॥
मार्कण्डेय उवाच ॥
एवमुक्तो बाष्कलिना त्यक्त्वा रूपं तु वामनम् ॥१८॥
हरिर्विचक्रमे लोकान्देवानां हितकाम्यया ॥
ब्रह्मलोकं ततो गत्वा..... ॥
देवस्य वामश्चरणो निविष्टो दानवालये ॥१९॥
ततः क्रमं स प्रथमं ददौ सूर्य्ये जगत्पतिः ॥
द्वितीयं च ध्रुवे देवस्तृतीयेन च यादव  ॥२०॥
ब्रह्माण्डं ताडयामास ह्यसंपूर्णेन केशवः ॥
ब्रह्माण्डस्ताडितस्तेन छिद्रतामगमत्प्रभो ॥२१॥
ब्रह्माण्डबाह्यतोयेन शतघ्नेनाम्भसावृतम् ॥
तेनच्छिद्रेण तत्तोयं विवेशाण्डं महीपते ॥२२॥
अंगुष्ठाग्रक्षतादण्डाद्यत्प्रविष्टं जलं शुचि ॥
प्राप्ता देवनदीत्वं तु सा तु विष्णुपदी नदी ॥२३॥
देवनद्या तया व्याप्तं ब्रह्माण्डं सकलं नृप! ॥
विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया ॥२४॥
वामनेन समाक्रान्ताः सर्वे लोका यदानघ! ॥
असुरैस्ते तदा त्यक्ता देवानां सत्यबान्धवैः ॥२५॥
पातालश्च यदा तेन नाक्रान्तं हरिमेधसा ॥
असुरैस्तैस्तदा घोरैरुष्यते यदुनन्दन! ॥२६॥
देवोऽपि हृत्वा त्रैलोक्यं जगामादर्शनं तदा ॥
पातालनिलयश्चापि सुखमास्ते स बाष्कलिः ॥२७॥
शक्रोऽपि पालयामास विपश्चिद्भुवनं तदा ॥
इमं त्रिविक्रमं नाम प्रादुर्भावं जगद्गुरोः ॥२८॥
गङ्गासंभवसंयुक्तं सर्वकिल्विषनाशनम् ॥२९॥
तेनैव देवदेवेन प्राप्ते वैवस्वतेऽन्तरे ॥
भूयो लोकास्त्रयः क्रान्ताः पदा संयमिनो नृप ॥३०॥
अनेन कारणेनोक्ता गंगा विष्णुपदी नृप ॥
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥३१॥
गंगासमुत्पत्तिरियं मयोक्ता श्रुत्वैव यां मुञ्चति सर्वपापम् ॥
पापैर्विशिष्टोऽपि नरो नृवीर साधुव्रतस्तु त्रिदिवं प्रयाति ॥३२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रिविक्रमोपाख्यानं नामैकविंश तितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : April 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP