TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकोनपञ्चाशत्तमोऽध्यायः

प्रथम खण्डः - एकोनपञ्चाशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


एकोनपञ्चाशत्तमोऽध्यायः
 ॥मार्कण्डेय उवाच  ॥
ततः साल्वो महातेजाः कुञ्जरेण तरस्विना ॥
अर्पयामास धर्मज्ञ रेणुकानन्दवर्धनम् ॥१॥
स्तब्धकर्णो विवृत्ताक्षः कृत्वा कुण्डलिनं करम् ॥
ग्रीवां सञ्चालयन्नागो ययौ गजमदोद्धतम् ॥२॥
दृष्ट्वैवापततस्तस्य वेगं रामोऽपि तं गजम् ॥
हुंकारमात्रेण रणे स्तम्भयामास वेगितम् ॥३॥
स्तम्भयामास नागेन्द्रं शैलेन्द्रशिखरोपमम् ॥
तस्थौ स पुरतस्तस्य साल्वस्य समरप्रियः ॥४॥
परशुं रुधिराक्ताङ्गं सकलङ्कमलं करे ॥
धारयन् विष्णुवद्याति सकलं कमलङ्करे ॥५॥
दन्तिना दन्तिनः पृष्ठं रामस्याऽऽरोढुमिच्छतः ॥
जहार वेगवान्वेगं शरैः सन्नतपर्वभिः ॥६॥
साल्वसायकसंघातविमुखीकृतविक्रमम् ॥
रामं रणे दैत्यगणाश्छादयन्ति वरायुधैः ॥७॥
महता सोऽस्त्रपुंजेन रामः संछादितो रणे ॥
निमीलिताक्षश्चिक्षेप साल्वाय परशुं तदा ॥८॥
आगच्छमानं वेगेन साल्वस्तं परशुं रणे ॥
आयुधैर्वारयामास न शशाक च शत्रुहा ॥९॥
स साल्वायुधसंघातं भङ्क्त्वा सर्वमशेषतः ॥
जहार शीर्षं साल्वस्य मुकुटोत्तमभूषितम् ॥१०॥
रामोऽपि भूतलात्प्राप्य गदां हेमविभूषिताम् ॥
आविध्य निजघानोग्रं साल्वं कुञ्जरसंस्थितम् ॥११॥
द्वावङ्कुशधरौ श्रेष्ठौ द्वौ च चर्मासिधारिणौ ॥
पताकाधारिणं चैकं गजस्य जघने स्थितम् ॥१२॥
देहं च तस्य साल्वस्य पताकां च मनोरमाम् ॥
एतदादाय सकलमाजगाम वसुन्धराम् ॥१३॥
सिंहनादेन रामस्य वित्रस्तो गजयूथपः ॥
आर्त्तनादं महत्कृत्वा प्रदुद्राव नराधिप ॥१४॥
रामकर्मणि वृत्ते तु भूतलात्परशुं रणे ॥
जग्राह वेगावान्वेगाद्दानवान्तचिकीर्षया ॥१५॥
दृष्ट्वा सपरशुं रामं साल्वं च विनिपातितम् ॥
हतशेषास्तु ते दैत्याः प्रविष्टा वरुणालयम् ॥१६॥
एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥
आयोधनमुपाजग्मुः पुरस्कृत्य पितामहम् ॥१७॥
प्रणाममकरोत्तेषां रामो रतिकरः पितुः ॥
पूजयित्वा तु ते रामं ययुर्देवाः स्वमालयम् ॥१८॥
शक्रोऽपि लब्ध्वा त्रिदिवं रामबाहुप्रसाधितम् ॥
विजहार दिवं राजन्पालयानो जगत्त्रयम् ॥१९॥
रथेन सिंहयुक्तेन महादेवोऽपि भार्गवम्॥
आदाय प्रययौ शीघ्रं कैलासं पर्वतोत्तमम् ॥२०॥
स्नेहेन चाऽस्य गात्राणां चक्रे सम्मार्जनं हरः ॥
येनाऽऽसीद्बलवान् रामो निर्व्रणश्च महाशयाः ॥२१॥
गतव्रणं श्रियोपेतं जयं लब्ध्वा ह्युपस्थितम् ॥
रामं प्रहरतां श्रेष्ठं शंकरो वाक्यमब्रवीत् ॥२२॥
शङ्कर उवाच ॥
रामराम महाभाग त्वयाऽहं परितोषितः ॥
तस्मात्तवाऽहं दास्यामि चास्त्रग्रामं ह्यनुत्तमम् ॥२३॥
अस्त्राणां धारणे शक्तस्त्वमेको भुवि भार्गव ॥
तव धैर्यमनौपम्यं तव सत्त्वमनुत्तमम् ॥२४॥
अस्त्रयोगमिहस्थस्त्वं कृत्वा पुत्र शनैःशनैः ॥
सर्वास्त्रवित्ततो राम गन्तासि पितरं स्वकम् ॥२५॥
यश्चैव परशुर्दिव्यः पित्रा दत्तस्तवाऽनघ ॥
अद्य प्रभृति ते क्षिप्तः करं भूयः समेष्यति ॥२६॥
उपलक्षणमेतच्च तथा तव भविष्यति ॥
छेत्स्यामि ते संशयांश्च निर्वृतो भव पुत्रक ॥२७॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तः परिपूर्णकामो रामो महात्मा जितसैन्यनावः ॥
उवास तत्र प्रमथैः समेतः सर्वाण्यथास्त्राण्यनुशिक्षमाणः ॥२८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववधो नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-23T12:10:32.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नकसुद्द

  • वि. ( गो . ) १ मोजकी , निवडक कामे करणारा . २ नाजूक ; निवडक . 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.