संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०४७

खण्डः १ - अध्यायः ०४७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
वह्निज्वालाग्रवर्णेन जटाजूटेन राजितम्॥
गगनार्द्धमिवाऽऽरूढं निदाघे रविमण्डलम् ॥१॥
आधारं सर्वदेवानां तपसा द्योतितप्रभम्॥
सेवमानमवसनं पीतगात्रमरिन्दमम् ॥२॥
एकमेकाकिनं वीरं सहस्रशतमण्डितम्॥
पिण्डितं सकलं धाम ब्रह्मक्षत्रियतेजसाम् ॥३॥
कृष्णाजिनोत्तरासङ्गभ्राजमानं बलोद्धतम्॥
स्निग्धया रञ्जितमिव प्रायेण पार्वतीदृशा ॥४॥
विराजमानं दोर्दण्डरुक्मदण्डेन भास्वता॥
परश्वधेन तीक्ष्णेन विमलाकाशवर्चसा ॥५॥
तपस्विनमनादृश्यं यमकालान्तकोपमम्॥
कम्पमानं पदन्यासैर्वसुधां सकलां तथा ॥६॥
मुष्णन्तं सर्वतेजांसि प्रभाते रविमण्डलम्॥
प्रांशुं कनकवर्णाङ्गं सितयज्ञोपवीतिनम् ॥७॥
गङ्गायाः प्रवहेणैव मेरुशृंगं विराजितम्॥
तेजसा दहनाकारं प्रजासंहारकारकम् ॥८॥
विषमं प्रमथेशस्य तृतीयमिव लोचनम्॥
अप्रसह्यमनावार्यं दुर्लङ्घ्यं जीवितच्छिदम् ॥९॥
कालेनेव भुजं सव्यं दैत्यहेतोः प्रसारितम्॥
रामे दृष्टिपथं प्राप्ते दानवानां समन्ततः ॥१०॥
हाहाकारो महानासीत्तमेकं निघ्नतां रणे॥
शस्त्रधारणविभ्रष्टब्राह्मण्यं स्वपथाच्च्युतम् ॥११॥
घातयध्वं दुराचारमेनमूचुः परस्परम्॥
एवमाद्रवतां तेषां बहूनामाततायिनाम् ॥१२॥
जग्राह वेगं सर्वेषां मरुतामिव पर्वतः॥
स हन्यमानो नाराचैस्तोमरैर्मुशलैस्तथा ॥१३॥
गदाभिरसिभिः पाशैर्भुशुण्डीभिरयोगुडैः॥
पट्टिशैर्भिन्दिपालैश्च हुतैः शूलैः परश्वधैः ॥१४॥
न विव्यथे ह्यमेयात्मा धराधर इवाऽनिलैः ॥१५॥
संवेष्टितं सर्वत एव सैन्यैरदृष्टयुद्धोऽपि रणे महात्मा॥
दैत्यार्णवं गोष्पदतुल्यमात्रममन्यताऽऽजौ रणचण्डवेगः ॥१६॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धे भार्गवरामदर्शनं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : December 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP