संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
षोडशोऽध्यायः

प्रथम खण्डः - षोडशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
भारतस्यास्य वर्षस्य भागेऽस्मिन्नवमे नृप! ॥
समुद्रो वालुकापूर्ण उज्जानक इति श्रुतिः ॥१॥
तस्य मध्ये समुद्रस्य धुन्धुप्रस्थपतेः सदा ॥
संवत्सरस्य सोन्ते तु महोच्छ्वासं प्रमुञ्चति ॥२॥
यदा तदा भूः स्खलति सशैलवनकानना।
प्राणिनो येऽल्पसत्त्वाश्च ते यान्ति यमसादनम् ॥३॥
यदा विबुद्धो भवति किञ्चिच्छेषा मही तदा ॥
आहारार्थं करोत्युग्रः पापात्मा जलराक्षसः ॥४॥
एतस्मिन्नेव काले तु चोत्तङ्कस्तप्यते तपः ॥
तपसोन्ते महात्मानं ददर्श मधुसूदनम् ॥५॥
तमुवाच हरिर्देवो वरं वरय भार्गव । ॥
उत्तंकः प्राञ्जलिर्भूत्वा तुष्टाव मधुसूदनम् ॥६॥
उवाच वरदं देवमेष एव वरो मम ॥
यदहं देवदेवस्य दृष्टवांश्चरणाम्बुजौ ॥७॥
श्रीभगवानुवाच ॥
अवश्यं ते वरो देयो मया भृगुकुलोद्वह ॥
अजरश्चामरश्चैव मत्प्रसादाद्भविष्यसि ॥८॥
यत्रेच्छसि जलं तत्र भविष्यति तथा तव ॥
देवतानां महत्कार्यं तथैव च करिष्यसि ॥९॥
आश्रमस्यास्य ते बाधां यः करोति सदानघ ॥
कुवलाश्वेन तं गत्वा धुंधु घातय मा चिरम् ॥१०॥
अहं चास्य प्रवेक्ष्यामि कुवलाश्वस्य विग्रहम् ॥
तेजसा स मदीयेन धुंधुमाजौ हनिष्यति ॥११॥
न ह्यल्पतेजसा हन्तुं धुंधुः शक्यो भृगूत्तम ॥
मार्कण्डेय उवाच ॥
एतावदुक्त्वा भगवान् गतोऽन्तर्धानमीश्वरः ॥१२॥
जगाम च तथायोध्यामुत्तंकोऽपि महातपाः ॥
पूजितो बृहदश्वेन बृहदश्वमभाषत ॥१३॥
उतङ्क उवाच ॥
कथं निद्रासि राजेन्द्र सुखं पर्यङ्कमास्थितः ॥
धुन्धोश्चरितमालोक्य बद्धकक्षो भवाधुना ॥१४॥
वचनान्मम राजेन्द्र धुंधुं हन्तुं तवास्ति भोः ॥
शक्तिः किमुद्यमाद्राज्ञां दुष्करं ते पुनः कथम् ॥१५॥
जहि धुंधुं महाकायं नृपते द्विजबाधकम् ॥
श्रुत्वा मुनिवचो राजा कुवलाश्वमभाषत ॥१६॥
अहं वनप्रवृत्तस्तु त्यक्तदण्डस्तथैव च ॥
जहि तं दानवश्रेष्ठं त्वमुत्तङ्केन पालितः ॥१७॥
एवमुक्तः परिष्वक्तः पित्रा प्रकृतिवत्सलः ॥
उत्तङ्कसहितो गत्वा युद्धायोदकराक्षसम् ॥१८॥
युयुधे तं च धर्मात्मा धुंधुं तेनैव केशवः ॥
उतङ्कानुमते पश्चाद्ब्रह्मास्त्रेण जघान तम् ॥१९॥
हत्वा तं राक्षसं लेभे त्रिदशेभ्यस्तदा वरान् ॥
कृष्णे भक्तिं स्थितिं धर्मे वासं स्वर्गे तथाक्षयम् ॥२०॥
मधुकैटभयोः पुत्रं घातयित्वा नराधिप ॥
धुन्धुमारत्वमगमदशोभत तथा पुरीम् ॥२१॥
तस्मिन्हते दैत्यवरे प्रसन्ना दिशो बभूवुर्मुदिताश्च देवाः ॥
विनष्टविघ्नं च जगत्तदास राजा च कीर्तिं परमामवाप ॥२२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे धुंधुमारोपाख्यानं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP