संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
पञ्चदशोऽध्यायः

प्रथम खण्डः - पञ्चदशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
इक्ष्वाकोरभवत्पुत्रो विकुक्षिर्न्नाम धार्मिकः ॥
ककुत्स्थस्तनयस्तस्य चानेनास्तस्य चात्मजः ॥१॥
तस्य पुत्रः पृथुः श्रीमान् विश्वदासस्तदात्मजः ॥
तस्य श्रावस्तको नाम श्रावस्ती येन निर्मिता॥२॥
बृहदश्वः सुतस्तस्य कुवलाश्वस्तदात्मजः ॥
कुवलाश्वो महातेजा धुन्धुमारत्वमागतः ॥
धुंधुं हत्वा महाकायमुदके जलराक्षसम् ॥३॥
वज्र उवाच ॥
कथं धुंधुर्महातेजाः कुवलाश्वेन घातितः ॥
कश्चायं धुंधुरित्येष विश्रुतो जलराक्षसः ॥४॥
मार्कण्डेय उवाच ॥
एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ॥५॥
नष्टचन्द्रार्कपवने विनष्टग्रहतारके ॥
शेषपर्यङ्कमासाद्य सुप्तो देवो जनार्दनः ॥६॥
नाभौ तस्य समुत्पन्नं देवस्य कमलं शुभम् ॥
तत्र जज्ञे स्वयं ब्रह्मा देवः शुभचतुर्मुखः ॥७॥
तत्रास्ते सोऽभ्यसन्वेदान्सुप्ते देवे जनार्दने ॥
उपासांचक्रिरे तस्य वेदा देहभृतस्तथा ॥८॥
वेदभ्यासरते तत्र स्वेदबिन्दुरजायत ॥
सपद्मपत्रमासाद्य द्विधाभूतोभवन्नृप ॥९॥
रजस्तमोमयौ तस्माज्जातौ दैत्यौ बलोत्कटौ ॥
मधुकैटभनामानौ महाबलपराक्रमौ ॥१०॥
ततस्तौ जह्रतुर्वेदान्ब्रह्मणः पापनिश्चयौ ॥
सशरीरेषु वेदेषु हतेष्वथ पितामहः ॥११॥
बोधयामास देवेशं पद्मनाभं स चानघः ॥
स विबुद्धस्तदा देवः कृत्वा हयशिरोधरम् ॥१२॥
शशाङ्कशतसंकाशं नानाभरणशोभितम् ॥
द्वितीयेन शरीरेण रसातलतलं गतः ॥१३॥
तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ॥
पितामहाय प्रददौ भूय एव जगद्गुरुः ॥१४॥
ततो हयशिरोधारी गतोन्तर्धानमीश्वरः ॥
आजग्मतुस्ततो देशं दानवौ मधुकैटभौ ॥१५॥
विष्णुश्चकार देहौ द्वौ विष्णुर्जिष्णु रिति स्मृतौ ॥
मधुना युयुधे जिष्णुर्विष्णुर्वै कैटभेन च ॥१६॥
ततस्तयोः सुयुद्धेन तुष्टो देवो जनार्दनः ॥
उवाच तौ महाकायौ दानवौ मधु कैटभौ ॥१७॥
वरं वरयतां श्रेष्ठं भवन्तावपराजितौ ॥
तावब्रूतां ततो देवं विष्णुं कमललोचनम् ॥१८॥
पुत्रोऽस्माकं भवेद्देव महाबलपराक्रमः ॥
पुत्रे जाते तु यौ तौ द्वौ विष्णुना जिष्णुना पुरा ॥१९॥
निहतौ च तदा वीरौ ह्युदकं च समाश्रितौ ॥
मेदो मुमुचतुस्तत्र व्याप्ता येनाभवन्मही ॥२०॥
मेदिनीति ततः ख्याता लोकेऽस्मिंस्तत्त्वचिन्तकैः ॥
वराहरूपेण तदा चोद्धृता वसुधा ततः ॥२१॥
तेनैव देवदेवेन पूर्वस्थाने निवे शिता ॥
सर्गं चक्रे ततो ब्रह्मा देवदेवस्य शासनात् ॥२२॥
एवं तदा देववरस्य युद्धे निपातितौ तौ मधुकैटभाख्यौ ॥
देवस्य विष्णोः सदनं प्रयातौ क्षीरार्णवे तस्य समीपगौ च ॥२३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मधुकैटभवधोपाख्यानं नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP