संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
त्रयस्त्रिंशत्तमोऽध्यायः

प्रथम खण्डः - त्रयस्त्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच  ॥
और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ॥
वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ॥१॥
तस्या परमया भक्त्या भर्ता तोषमुपागतः ॥
उवाच तां वरारोहामृचीको भृगुनन्दनः ॥२॥
 ॥ऋचीक उवाच  ॥
वरं वरय सुश्रोणि यत्ते मनसि वर्तते ॥
तोषितोऽहं त्वया भद्रे वने शुश्रूषया वद ॥३॥
सत्यवत्युवाच ॥
मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम् ॥
पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ॥४॥
ऋचीक उवाच ॥
चरुद्वयं करिष्यामि मातुरर्थे तथा तव ॥
यस्य संप्राशनात्पुत्रं त्वं चैव जनयिष्यसि ॥५॥
मार्कण्डेय उवाच ॥
एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ॥
एकस्मिन्सकलं क्षात्रं तेजश्चक्रे सवैष्णवम् ॥६॥
श्वश्र्वर्थे तं चरुं कृत्वा द्वितीये स न्यवेशयत् ॥
ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवाञ्चरुम् ॥७॥
ऋचीक उवाच ॥
अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरुस्तव ॥
अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ॥८॥।
तथैवौदुम्बरस्याऽपि त्वया राजीवलोचने ॥९॥
मार्कण्डेय उवाच ॥
एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ॥१०॥
ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ॥
ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ॥११॥
श्रेष्ठेन तेजसा युक्तश्चरुरेष कृतः शुभे ॥
तस्माच्चरुविपर्यासं मदर्थे कुरु मा चिरम् ॥१२॥
अलिङ्गने विपर्यासं द्रुमयोः क्रियतां तथा ॥
सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ॥१३॥
सगर्भां स गते काले भर्ता वचनमब्रवीत् ॥१४॥
ऋचीक उवाच ॥
ध्रुवं चरुविपर्यासो द्रुमयोश्च त्वया कृतम् ॥
येन त्वमसितापाङ्गि युक्ता क्षत्रियतेजसा ॥१५॥
ब्राह्मेण तेजसा युक्तं कृतवानस्मि ते चरुम् ॥
मातुस्ते चारुसर्वांगि तथा क्षत्त्रियतेजसा ॥१६॥
कृतं चरुविपर्यासं सा विप्रं जनयिष्यति ॥
क्षत्रधर्मरतं पुत्रं विप्रं त्वं जनयिष्यसि ॥१७॥
सत्यवत्युवाच ॥मातुर्मतात्कृतमिदं भगवन्क्षन्तुमर्हसि ॥
क्षत्रधर्मरतः पुत्रो न मे भवितुमर्हति ॥१८॥
ऋचीक उवाच ॥
एवमस्तु न ते पुत्रः क्षत्रधर्मा भविष्यति ॥
पौत्रस्त्ववश्यं भविता भाव्यर्थविधिचोदितः ॥१९॥
सत्यवत्युवाच ॥
सर्वेश्वरत्वं भगवन्किमर्थं पौत्रस्य मे क्षत्रियभावमुग्रम् ॥
निवर्तितुं नेच्छसि मातुलेन वदस्व तन्मे यदि ते न गुह्यम् ॥२०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चरुविपर्यासो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP