संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
द्वाविंशतितमोऽध्यायः

प्रथम खण्डः - द्वाविंशतितमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
ब्रह्मन्विष्णुपदी गंगा त्रैलोक्यं व्याप्य तिष्ठति ॥
यथा तथा भृगुश्रेष्ठ सर्वमेव प्रकीर्तय ॥१॥
मार्कण्डेय उवाच ॥
प्रविश्य देवी ब्रह्माण्डं विष्णुलोकमुपागता ॥
ब्राह्मीं सभां प्लावयित्वा तपोलोकमुपागता ॥२॥
जनलोकं गता तस्मान्महर्ल्लोकं ततो गता ॥
स्वर्गलोकं समासाद्य प्रविष्टा चन्द्रमण्डलम् ॥३॥
चन्द्रमण्डलविभ्रष्टा भुवर्लोकमुपागता ॥
आकाशगंगा कथिता तत्र सा रतिवर्धिनी ॥४॥
तस्यास्तु दृश्यते पन्थाः सततं व्योम्नि निर्मले ॥
आकाशगंगामध्ये सा मेरौ निपतिता गिरौ ॥५॥
मेरुमध्याददृश्यन्ती दृश्यन्ती च तथा क्वचित् ॥
प्रयाता सर्ववर्षाणि द्वीपानि च महामते ॥६॥
सा तु देवी जया नाम कुरुवर्षे ह्रदास्तु ते ॥
तेभ्यः शान्ता च साध्वी च द्विधा गंगा विनिस्सृता ॥७॥
ज्योत्स्ना च मृगमन्दा च स्मृता हैरण्वती शुभा ॥
पुण्डरीका पयोदा च रम्ये वर्षे निगद्यते ॥८॥
भद्रा च कथिता देवी गान्धर्वी च मनोऽनुगा ॥
इलावृते तथा सैव प्रोक्ता जाम्बवती शुभा ॥९॥
तस्यास्तीरभवं मूर्ध्नि कनकं धार्यते सुरैः॥
केतुमाले च कथिता निर्मला नड्वला तथा ॥१०॥
मनस्विनी ज्योतिष्मती हरिवर्षे निगद्यते॥
तथा किम्पुरुषाख्ये तु रम्भा चन्द्रवती शुभा ॥११॥
इन्द्रद्युम्नपयोदा सा काशैका मतिपावनी ॥
मनोजवा ताम्रपर्णी गभस्तिमतिमालिनी ॥१२॥
नागद्वीपे नागवती सौम्ये सोमप्रभा तथा ॥
रुद्रलोकं ततः प्राप्ता ब्रह्मलोकं ततो गता ॥१३॥
गान्धर्वी चैव गन्धर्वी वारुणे वरुणह्रदा ॥
ह्रादिनी ह्लादिनी चैव पुण्यतोया च वर्षिणी ॥१४॥
सीता चक्षुश्च सिन्धुश्च गंगा चास्मिन्प्रकीर्तिता ॥
अमरान्निषधान्सर्वान्धीवरानृषिकांस्तथा ॥१५॥
ओष्ठप्रावरणान्सौम्यान्कर्णप्रावरणांस्तथा ॥
कालोदरान्विकर्णांश्च ह्रादिनी तु निषेवते ॥१६॥
इन्द्रद्युम्नसरः पुण्यमुपचारादजायत ॥
तथा खरपदान्देशान्वेत्रशङ्कुपदानपि ॥१७॥
तञ्जानकामतं चैव ह्लादिनी तु निषेवते ॥
दरदाञ्जहुडांश्चैव काश्मीरान्नैरसान्कुरून् ॥१८॥
गान्धारान्दरदाभीरान्कुपर्वान्भीमरौरवान् ॥
शिवपर्वानिन्द्रपर्वान्सिन्धुतीरान्निषेवते ॥१९॥
देवान्दैत्यान्कालकेयान्गन्धर्वान्किन्नरांस्तथा ॥
विद्याधरांस्तथा नागान्सुपर्वान्सुमनोहरान् ॥२०॥
कलापग्रामकांश्चैव नरनारायणाश्रमम् ॥
किरातांश्च पुलिन्दांश्च मयस्य नगरीं तथा ॥२१॥
कुतून्सभारतांश्चैव पुलिन्दाँश्चैव भागशः ॥
पाञ्चालान्काशयान्वत्सान्मागधांस्ताम्रलिप्तकान् ॥२२॥
सह्योत्तरांश्च वङ्गांश्च तथा श्रावस्तिवासिन ॥
अङ्गान्वंगान्सपुण्ड्रांश्च गंगा भावयते शुभा ॥२३॥
ह्रादिनी ह्लादिनी चैव पावनी जाह्नवी तथा ॥
प्रविष्टा सागरं पूर्वं द्वीपेस्मिन्नृपसत्तम ॥२४॥
सीताचक्षुश्च सिन्धुश्च पश्चिमं नृप सागरम् ॥
गङ्गाव्याप्तिस्तव प्रोक्ता जम्बूद्वीपे मयानघ ॥२५॥
लोकेषु च तथा राजन्द्वीपेष्वन्येषु मे शृणु ॥
सुकुमारी कुमारी च सुकृता सेविनी तथा ॥२६॥
इक्षुश्च वेणुका नन्दा शाकद्वीपे च सप्तधा ॥
शाल्मले त्वथ गोमेदे द्वीपे पुष्करसंज्ञके ॥२७॥
नदीत्वं सा समुत्सृज्य चोदधित्वमुपागता ॥
तस्मिन्द्वीपत्रये नद्यो न सन्ति यदुनन्दन ॥२८॥
उदकान्युद्भिदान्येव तेषु सन्ति सहस्रशः ॥
एवं भूमितलं प्लाव्य पातालं कृष्णमृत्तिकम् ॥२९॥
एकीभूता प्रविष्टा सा भोगवत्यां समीपतः ॥
श्वेतभौमं गता तस्माद्रक्तभौमं ततो गता ॥३०॥
शिलाभौमं गता तस्माद्रुक्मभौमं ततो गता ॥
रुक्मभौमादपि गता रौद्रं तेजस्सुदारुणम् ॥३१॥
ततोऽपि विलयं गत्वा वाराहं लोकमागता ॥
वाराहलोकाद्ब्रह्माण्डं तदर्थं भिन्न वाहिनी ॥३२॥
छिद्रेण तेन सा देवी स्वां योनिं पुनरागता ॥३३॥
एवं नरेन्द्रेश जगत्समग्रमाक्रम्य गंगा सततं स्थिता या ॥
तस्याः प्रभावश्रवणादशेषं पापं नराणां समुपैति शांतिम् ॥३४॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गंगाव्याप्तिर्नाम द्वाविंशतितमो ऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : April 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP