संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०४६

खण्डः १ - अध्यायः ०४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
व्यस्पन्दताऽथ साल्वस्य राजन्बाहुरदक्षिणः॥
हदयञ्च तथा पृष्ठं नयनञ्चाप्य दक्षिणम् ॥१॥
शून्यचित्तश्च विमनाः कम्पते च मुहुर्मुहुः ।
पपात नायकश्चाऽपि किरीटात्तारकप्रभः ॥२॥
आक्रमन्ति गजाः पादं तथा वामेन दक्षिणम्॥
करेण वेष्टयन्ति स्म तथा दन्तमदक्षिणम्॥
मदं त्यजन्ति ये मत्तास्तुरगाश्च मुहुर्मुहुः ॥३॥
संस्पृशन्ति तथा वामं पार्श्वं प्रोथेन वामुना॥
वृकाः शृगालाः शार्दूला विडाला गर्दभाः शशाः ॥४॥
वामीभूत्वा दानवानां यान्ति दक्षिणतस्ततः॥
एणा वराहाः पृषतो यान्ति तेषाञ्च वामतः ॥५॥
दीप्तायां दिशि वाशन्ति मृगास्तेषामपस्वनम्॥
तैलपङ्कगुडाङ्गारचर्मकेशतृणानि च ॥६॥
दानवानां प्रयातानां संभवन्त्यग्रतस्तथा॥
एवंविधा दुर्निमित्ता जाताः साल्वस्य पश्यतः ॥७॥
मतिः सुनिश्चितैवाऽऽसीन्मरणं प्रति यादव॥
स ययौ सह सैन्येन महता चतुरङ्गिणा॥
कैलासपर्वतं योद्धुं महादेवेन शूलिना ॥९॥
युद्धोत्सुके दैत्यपतौ प्रयाते व्यदृश्यताग्रेचरचण्डवेगः॥
रामः प्रवालारुणकोमलेन दीप्तप्रतापेन विराजमानः ॥१०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्वसेनादुर्निमित्तदर्शनं नाम षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : December 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP