संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
षट्चत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - षट्चत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
व्यस्पन्दताऽथ साल्वस्य राजन्बाहुरदक्षिणः ॥
हदयञ्च तथा पृष्ठं नयनञ्चाप्य दक्षिणम् ॥१॥
शून्यचित्तश्च विमनाः कम्पते च मुहुर्मुहुः ।
पपात नायकश्चाऽपि किरीटात्तारकप्रभः॥२॥
आक्रमन्ति गजाः पादं तथा वामेन दक्षिणम् ॥
करेण वेष्टयन्ति स्म तथा दन्तमदक्षिणम् ॥
मदं त्यजन्ति ये मत्तास्तुरगाश्च मुहुर्मुहुः ॥३॥
संस्पृशन्ति तथा वामं पार्श्वं प्रोथेन वामुना॥
वृकाः शृगालाः शार्दूला विडाला गर्दभाः शशाः ॥४॥
वामीभूत्वा दानवानां यान्ति दक्षिणतस्ततः ॥
एणा वराहाः पृषतो यान्ति तेषाञ्च वामतः ॥५॥
दीप्तायां दिशि वाशन्ति मृगास्तेषामपस्वनम् ॥
तैलपङ्कगुडाङ्गारचर्मकेशतृणानि च ॥६॥
दानवानां प्रयातानां संभवन्त्यग्रतस्तथा ॥
एवंविधा दुर्निमित्ता जाताः साल्वस्य पश्यतः ॥७॥
मतिः सुनिश्चितैवाऽऽसीन्मरणं प्रति याद व ॥
स ययौ सह सैन्येन महता चतुरङ्गिणा ॥
कैलासपर्वतं योद्धुं महादेवेन शूलिना ॥९॥
युद्धोत्सुके दैत्यपतौ प्रयाते व्यदृश्यताग्रेचरचण्डवेगः ॥
रामः प्रवालारुणकोमलेन दीप्तप्रतापेन विराजमानः ॥१०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्वसेनादुर्निमित्तदर्शनं नाम षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP