श्रीविष्णुपुराण - प्रथम अंश - अध्याय १

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीसूत उवाच

ॐ पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम् । मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥

त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो । धर्मशास्त्राणि सर्वाणि तथांगनि यथाक्रमम् ॥२॥

त्वत्प्रसादान्मुनिश्रेष्ठ मानन्ये नाकृतश्रमम् । वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो येऽपि विद्विषः ॥३॥

सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूत भूयश्र्च यथा महाभाग भविष्यति ॥४॥

यन्मयं च जगद्बह्मन्यतश्चैतच्चराचरम् । लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥५॥

यत्प्रमाणानि भूतानि देवादीनां च सम्भवम् । समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥६॥

सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम । देवादीनां तथा वंशान्मनून्मन्वन्तराणि च ॥७॥

कल्पान् कल्पविभागांश्च चातुर्युगविकल्पितान् । कल्पान्तस्य स्वरूपं च युगधर्माश्च कृत्स्नशः ॥८॥

देवर्षिपार्थिवानां च चरितं यन्महामुने । वेदशाखाप्रणयनं यथावद्व्‌यासकर्तृकम् ॥९॥

धर्माश्च ब्राह्मणादीनां तथा चाश्रमवासिनाम् । श्रोतुमिच्छाम्यहं सर्वं त्वृत्तो वासिष्ठनन्दन ॥१०॥

ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् । येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥११॥

श्रीपराशर उवाच

साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् । पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥१२॥

विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा । श्रुतस्तातस्ततः क्रोधो मैत्रेयाभून्ममातुलः ॥१३॥

ततोऽहं रक्षसां सत्रं विनाशाय समारभम् । भस्मीभूताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥१४॥

ततः सड्‌क्षीयमाणेषु तेषु रक्षस्स्वशेषतः । मामुवाच महाभागो वसिष्ठो मत्पितामहः ॥१५॥

अलमत्यन्तकोपेन तात मन्युमिमं जहि । राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत् ॥१६॥

मूढानामेव भवति क्रोधो ज्ञानवतां कृतः । हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥१७॥

सत्र्चितस्यापि महता वत्स क्लेशेन मानवैः । यशसस्तपसश्र्चैव क्रोधो नाशकरः परः ॥१८॥

स्वर्गापवर्गव्यासेधकारणं परमर्षयः । वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥१९॥

अलं निशाचरैर्दग्धैदीनैरनपकारिभिः । सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥२०॥

एवं तातेन तेनाहमनुनीतो महात्मना । उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥२१॥

ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः । सम्प्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥२२॥

पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः । मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥२३॥

वैरे महति यद्दाक्याद्‌गुरोरद्याश्रिता क्षमा । त्वया तस्मात्समस्तानि भवात्र्च्छास्त्राणि वेत्स्यति ॥२४॥

सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः । त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥२५॥

पुराणसंहिताकर्ता भवान्वत्स भविष्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥२६॥

प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः । मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति ॥२७॥

ततश्च प्राह भगवान्वसिष्ठो मे पितामहः । पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥२८॥

इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । यदुक्तं तत्स्मृतिं याति त्वत्प्रश्नादखिलं मम ॥२९॥

सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते । पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥३०॥

विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥३१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP