श्रीविष्णुपुराण - प्रथम अंश - अध्याय ९

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

इदं च श्रृणु मैत्रेय यत्पृष्टोऽहमिह त्वया । श्रीसम्बन्धं मयाप्येतच्छूतमासीन्मरीचितः ॥१॥

दुर्वासाः शंकरस्यांशश्चचार पृथिवीमिमाम् । स ददर्श स्त्रजं दिव्यामृषिर्विद्याधरीकरे ॥२॥

सन्तानकानामखिलं यस्या गन्धेन वासितम् । अतिसेव्यमभूद्वह्मन् तद्वनं वनचारिणाम् ॥३॥

उन्मत्तव्रतधॄग्विप्रस्तां दृष्ट्वा शोभनां स्त्रजम् । तां ययाचे वरारोहां विद्याधरवधूं ततः ॥४॥

याचिता तेन तन्वंगी मालां विद्याधरांगना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम्‌ ॥५॥

तामादायात्मनो मूर्धि स्त्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥६॥

स ददर्श तमायान्तमुन्मत्तैरावते स्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥७॥

तामात्मनः स शिरसः स्त्रजमुन्मत्तषट्‍पदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥८॥

गृहीत्वाऽमरराजेन स्त्रगैरावतमूर्द्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥९॥

मदान्धकरिताक्षोऽसौ गन्धाक्रृष्टेन वारणः । करेणाघ्राय चिक्षेप तां स्त्रजं धरणीतले ॥१०॥

ततश्चुक्रोध भगवान्दुर्वासा मुनिसत्तमः । मैत्रेय देवराजं तं क्रुद्धश्चैतदुवाच ह ॥११॥

दुर्वासा उवाच

ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोऽसि वासव । श्रियो धाम स्त्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥१२॥

प्रसाद इति नोक्तं ते प्राणिपातपुरः सरम् । हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥१३॥

मया दत्तामिमां मालां यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति ॥१४॥

मां मन्यसे त्वं सदृशं नूनं शक्रेतरद्विजैः । अतोऽवमानमस्मासु मानिना भवता कृतम् ॥१५॥

मद्दत्ता भवता यस्मात्क्षित्पा माला महीतले । तस्मात्प्रणष्टलक्ष्मेकं त्रैलोक्यं ते भविष्यति ॥१६॥

यस्य सत्र्जातकोपस्य भयमेति चरचरम् । तं त्वं मामतिगर्वेण देवराजावमन्यसे ॥१७॥

श्रीपराशर उवाच

महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः । प्रसादयामास मुनि दुर्वाससमकल्मषम् ॥१८॥

प्रसाद्यमानः स तदा प्रणिपातपुरः सरम् । इत्युवाच सहस्त्राक्षं दुर्वास मुनिसत्तमः ॥१९॥

दुर्वासा उवाच

नाहं कृपालुहृदयो न च मां भजते क्षमा । अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम् ॥२०॥

गौतमादिभिरन्यैस्त्वं गर्वमारोपितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥२१॥

वसिष्ठाद्यैर्ययासारैस्स्तोत्रं कुर्वद्भिरुच्चकैः । गर्वं गतोऽसि येनैवं मामप्यद्यावमन्यसे ॥२२॥

ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । नरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥२३॥

नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो । विडम्बनामियों भूयः करोष्यनुनयात्मिकाम् ॥२४॥

श्रीपराशर उवाच

इत्युक्त्वा प्रययौ विप्रो देवराजोऽपि तं पुनः । आरुह्यौरावतं ब्रह्मन् प्रययावमरावतीम् ॥२५॥

ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदपध्वस्तं संक्षीणौषधिवीरुधम् ॥२६॥

न यज्ञाः समवर्त्तन्त न तपस्यन्ति तापसाः । न च दानादिधर्मेषु मनश्चक्रे तदा जनः ॥२७॥

निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः । स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्विजोत्तम ॥२८॥

यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्युनुसारि च । निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥२९॥

बलशौर्याद्यभावश्च पुरुषाणां गुणैर्विना । लंघनीयः समस्तस्य बलशौर्यविवर्जितः ॥३०॥

भवत्यपध्वस्तमतिर्लड्घितः प्रथितः पुमान् ॥३१॥

एवमत्यन्तनिः श्रीके त्रैलोक्ये सत्त्ववर्जिते । देवान्‌ प्रति बलोद्योगं चक्रुदैतेयदानवाः ॥३२॥

लोभाभिभूता निःश्रीका दैत्याः सत्त्वाविवार्जिताः । श्रिया विहीनैर्निः सत्त्वैर्देवैश्चक्रुस्ततो रणम् ॥३३॥

विजितास्त्रिदशा दैत्यैरिन्दराद्याः शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः ॥३४॥

यथाअत्कथितो देवैर्ब्रह्म प्राह ततः सुरान् । परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥३५॥

उप्तत्तिस्थित्नाशानामहेतुं हेतुमीश्वरम् । प्रजापतिपतिं विष्णुमनन्तमपराजितम् ॥३६॥

प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । प्रणतार्त्तिहरं विष्णु स वः श्रेयो विधास्यति ॥३७॥

श्रीपराशर उवाच

एवमुक्त्वा सुरान्सर्वान ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरं तीरं तैरेव सहितो ययौ ॥३८॥

स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः । तुष्टाव वाग्भिरिष्टाभिः परावरपतिं हरिम् ॥३९॥

ब्रह्मोवाच

नमामि सर्वं सर्वेशमनन्तमजमव्ययम् । लोकधाम धराधारमप्रकाशमभेदिनम् ॥४०॥

नारायणमणीयांसमशेषाणामणीयसाम् । समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥४१॥

यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरः सरम् । सर्वभूतश्च यो देवः पराणामपि यः परः ॥४२॥

परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् । योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतोर्मुमक्षुभिः ॥४३॥

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धाः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥४४॥

कलाकाष्ठामुहूर्त्तादिकालसूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ॥४५॥

प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः । प्रसीदत्तु स नो विष्णुरात्मा यः सर्वेदेहिनाम् ॥४६॥

यः करणं च कार्यं च कारणस्यापि कारणम् । कार्यस्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥४७॥

कार्यकार्यस्य यत्कार्य तत्कार्यस्त्यापि यः स्वयम् । तत्कार्यकार्यभूतो यस्ततश्च प्रणताः स्म तम् ॥४८॥

कारणं कारणस्यापि तस्य कारणकारणम् । तत्कारणानां हेतुम तं प्रणताः स्म परेश्वरम् ॥४९॥

भोक्तारं भोग्यभूतं च स्त्रष्टारं सृज्यमेव च । कार्यकर्तृस्वरूपं तं प्रणताः स्म परं पदम् ॥५०॥

विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम् ॥५१॥

न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत्पदं परमं विष्णोः प्रणमामः सदाऽमलम् ॥५२॥

यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता । परब्रह्मास्वरूपं यत्प्रणमामस्तमव्ययम् ॥५३॥

यद्योगिनह सदोद्युक्ताः पुण्यपापक्षयेऽक्षयम्‌ । पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥५४॥

यन्न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥५५॥

शक्तयो यस्य देवस्य ब्रह्माविष्णुशिवात्मिकाः । भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ॥५६॥

सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत । प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥५७॥

श्रीपराशर उवाच

इत्युदीरितमाकर्ण्य ब्रह्माणस्त्रिदशास्ततः । प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम् ॥५८॥

यन्नायं भगवान् ब्रह्मा जानाति परमं पदम् । तन्नताः स्म जगद्धाम तव सर्वगताच्युत ॥५९॥

इत्यन्ते वचसस्तेषां देवानां ब्रह्माणस्तथा । ऊचुर्देवर्षयस्सर्वे बृहस्पतिपुरोगमाः ॥६०॥

आद्यो यज्ञपुमानीड्यः पूर्वषां यश्च पूर्वजः । तन्नताः स्म जगत्स्त्रष्टुः स्त्रष्टारमविषेणम् ॥६१॥

भगवन्भूतभव्येश यज्ञमूर्त्तिधराव्यय । प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥६२॥

एष ब्रह्मा सहास्माभिः सहरुद्रैस्त्रिलोचनः । सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभिः ॥६३॥

अश्विनौ वसवश्चेमे सर्वे चैते मरुद्गणाः । साध्या विश्वे तथा देव देवेन्द्रश्चायमीश्वरः ॥६४॥

प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः । शरणं त्वामनुप्राप्ताः समस्ताः देवतागणाः ॥६५॥

श्रीपराशर उवाच

एवं संस्तुयमानस्तु भगवात्र्छंखचक्रधृक् । जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ॥६६॥

तं दृष्ट्वा ते तदा देवां शंखचक्रगदाधरम् । अपूर्वस्वरूपसंस्थानं तेजसां राशिमूर्जितम् ॥६७॥

प्रणम्य प्रणताः सर्वे संक्षोभस्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥६८॥

देवा ऊचुः

नमो नमोऽविशेषस्त्वं त्वं ब्रह्मा त्वं पिनाकधृक् । इन्द्रस्त्वमग्निः पवनो वरुणः सविता यमः ॥६९॥

वसवो मरुतः साध्या विश्वेदेवगणाः भवान् । योऽयं तवाग्रतो देव समीपं देवतागणः ।

स त्वमेव जगत्स्त्रष्टा यतः सर्वगतो भवान् ॥७०॥

त्वं यज्ञस्त्वं वषट्‌कारस्त्वमोंकारः प्रजापतिः । विद्या वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत ॥७१॥

त्वामार्ताः शरणं विष्णो प्रयाता दैत्यानिर्जिताः । वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः ॥७२॥

तावदार्त्तिस्तथा वात्र्छा तावन्मोहस्तथाऽसुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥७३॥

त्वं प्रसादं प्रसन्नात्मन प्रपन्नानां कुरुष्व नः । तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥७४॥

श्रीपराशर उवाच

एवं संस्तुयमानस्तु प्रणतैरमरैर्हरिः । प्रसन्नदृष्टिर्भगवानिदमाह स विश्वकृत् ॥७५॥

तेजसो भवतां देवाः करिष्याम्युपबृंहणम् । वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः ॥७६॥

आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः । प्रक्षिप्यात्रामृतार्थ तः सकला दैत्यदानवैः ।

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥७७॥

मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥७८॥

सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि । सामान्यफलभोक्तारो युयं वाच्या भविष्यथ ॥७९॥

मथ्यमाने च तत्राब्धो यत्समुत्पस्यतेऽमृतम् । तत्पानाद्वलिनो यूयममराश्च भविष्यथ ॥८०॥

तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः । न प्रास्यन्त्यमृतं देवाः केवलं क्लेषभागिनः ॥८१॥

श्रीपराशर उवाच

इत्युक्ता देवदेवेन सर्व एव तदा सुराः । सन्धानमसुरैः कृत्वा जत्नवन्तोऽमृतेऽभवन् ॥८२॥

नानौषधीः समानीय देवदैतेयदानवाः । क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥८३॥

मन्थानं मन्दरं कृत्वां नेत्रं कृत्वां च वासुकिम् । ततो मथितुमारब्धा मैत्रेय तरसाऽमृतम् ॥८४॥

विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः । कॄष्णेन वासुदेर्दैत्याः पुर्वकाये निवेशिताः ॥८५॥

ते तस्य मुखनिश्वासवह्नितापहतत्विषः । निस्तेजसोऽसुराः सर्वे बभूवुरमितौजसः ॥८६॥

तेनैव मुखनिश्वासवायुनास्तबलाहकैः । पुच्छप्रदेशे वर्षद्भिस्तदा चाप्यायिताः सुराः ॥८७॥

क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः । मन्थनाद्रेरधिष्ठानं भ्रमतोऽभून्महामुने ॥८८॥

रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष नागराजानं दैत्यमध्येऽपरेण च ॥८९॥

उपर्याक्रान्तवात्र्च्छैलं बॄहद्रूपेण केशवः । तथापरेण मैत्रेय यन्न दृष्टं सुरासुरै ॥९०॥

तेजसा नागराजानं तथाप्यायितवान्हरीः । अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥९१॥

मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः । हविर्धामाऽभवत्पूर्व सुरभिः सुरपूजिता ॥९२॥

जग्मुर्मुदं ततो देवा दानवाश्च महामुने । व्याक्षित्पचेतसश्चैव बभूवुः स्तिमितेक्षणाः ॥९३॥

किमेतदिति सिद्धांना दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥९४॥

कृतावर्तात्ततस्तस्मात्क्षीरोद्दाद्वासयत्र्जगत् । गन्धेन पारिजातोऽभूद्देवस्त्रीनन्दनस्तरूः ॥९५॥

रूपौदार्यगुणोपेतस्तथा चाप्सरसां गणः । क्षीरोदधेः समुप्तन्नो मैत्रेय परमाद्भुतः ॥९६॥

ततः शीतांशुरभवज्जगृहे तं महेश्वरः । जगृहूश्च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥९७॥

ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्स्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥९८॥

ततः स्वस्थमनस्कास्ते सर्वे दैतेयदानवाः । बभूवूर्मूदिताः सर्वे मैत्रेय मुनिभिः सह ॥९९॥

ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्मादुद्भूता धृतपंकजा ॥१००॥

तां तुष्टुवुर्मदा युक्ताः श्रीसुक्तेन महर्षयः ॥१०१॥

विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः । घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥१०२॥

गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे । दिग्गजा हेमपात्रस्थमादाय विमलं जलम् ।

स्नापयात्र्चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥१०३॥

क्षीरोदो रूपधृक्तस्यै मालामम्लानपंकजाम् । ददौ विभूषणान्यंगे विश्वकर्मा चकार ह ॥१०४॥

दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षः स्थलं हरेः ॥१०५॥

तया विलोकिता देवा हरिवक्षः स्थलस्थया । लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥१०६॥

उद्वेगं परमं जग्मुर्दैत्या विष्णुपरंमुखाः । त्यक्ता लक्ष्या महाभाग विप्रचित्तिपुरोगमाः ॥१०७॥

ततस्ये जगृहूर्दैत्या धन्वन्तरिकरस्थितम् । कमण्डलुं महावीर्या यत्रास्तेऽमृतमुत्तमम् ॥१०८॥

मायमा मोहयित्वा तान्विष्णुः स्त्रीरूपसंस्थितः । दानवेभ्यस्तदादाय देवेभ्यः प्रददौ प्रभुः ॥१०९॥

ततः पपुः सुरगणाः शक्राद्यास्तत्तदाऽमृतम् । उद्यतायुधनिस्त्रिंशा दैत्यास्तांश्च समभ्ययुः ॥११०॥

पीतेऽमृते च बलिभिर्देवैर्दैत्यचमूस्तदा । बध्यमाना दिशो भेजे पातालं च विवेश वै ॥१११॥

ततो देवा मुदा युक्ताः शंखचक्रगदाभूतम् । प्रणिपत्य यथापूर्वमाशासत्तत्र्तिविष्टपम् ॥११२॥

ततः प्रसन्नभाः सूर्य प्रययौ स्वेन वर्त्मना । ज्योतींषि च यथामार्ग प्रययुर्मुनिसत्तम ॥११३॥

जज्वाल भगवांश्चाच्चैश्चारुदीप्तिर्विभावसुः । धर्मे च सर्वभूतानां तदा मतिरजायत ॥११४॥

त्रैलोक्यं च श्रिया जुष्टं बभूव द्विजसत्तम । शक्रश्च त्रिदशश्रेष्ठः पुनः श्रीमानाजायत ॥११५॥

सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥११६॥

इन्द्र उवाच

नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षः स्थलस्थिताम् ॥११७॥

पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् । वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥११८॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥११९॥

यज्ञविद्या महाविद्या गुह्राविद्या च शोभने । आत्मविद्या च देविं त्वं विमुक्तिफलदायिनी ॥१२०॥

आन्वीक्षिकी त्रयीवार्त्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैत्तद्देवि पूरितम् ॥१२१॥

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिनिन्त्यं गदाभृतः ॥१२२॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥१२३॥

दाराः पुत्रास्तथागारसुहद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्विक्षनान्नृणाम् ॥१२४॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् । देवि त्वद्‌दृष्टिदृष्टानां पुरुषाणां न दुर्लभम्‌ ॥१२५॥

त्वं माता सर्वलोकांना देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्‌व्याप्तं चराचरम् ॥१२६॥

मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥१२७॥

मा पुत्रान्मा सुहृद्वर्गं मा पशून्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षः स्थलालये ॥१२८॥

सत्त्वेन सत्यसौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥१२९॥

त्वया विलोकिताः सद्यः शीलादैरखिलैर्गुणैः । कुलैश्वर्यैश्व युज्यन्ते पुरुषा निर्गुणा अपि ॥१३०॥

स श्‍लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धीमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥१३१॥

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । परांमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥१३२॥

न ते वर्णयितुं शक्ता गुणात्र्जिह्वापि वेधसः । प्रसीद देवी पद्माक्षि मास्मांस्त्याक्षीः कदाचन ॥१३३॥

श्रीपराशर उवाच

एवं श्रीः संस्तुता सम्यक प्राह देवी शतक्रतुम् । श्रृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥१३४॥

श्रीरुवाच

परितृष्टास्मि देवेश स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वरदाहं तवागता ॥१३५॥

इन्द्र उवाच

वरदा यदि मे देवि वरार्हो यदि वाप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥१३६॥

स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥१३७॥

श्रीरुवाच

त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव । दत्तो वरो मया यस्ते स्तोत्राराधनतृष्ट्या ॥१३८॥

यश्च सायं तथा प्राप्तः स्तोत्रेणानेन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि परांडखी ॥१३९॥

श्रीपराशर उवाच

एवं ददौ वरं देवी देवराजाय वै पुरा । मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥१४०॥

भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुद्‍धेः पुनः । देवदानवयत्नेन प्रसुताऽमृतमन्थने ॥१४१॥

एवं यदा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येषा तदा श्रीस्तत्सहायिनी ॥१४२॥

पुनश्च पद्मादुप्तन्ना आदित्योऽभूद्यदा हरिः । यदा तु भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥१४३॥

राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषानपायिनी ॥१४४॥

देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥१४५॥

यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः । श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥१४६॥

पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने । अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥१४७॥

एतत्ते कथितं ब्रह्मान्यन्मां त्वं परिपृच्छसि । क्षीराब्धौ श्रीर्यथा जाता पूर्व भृगुसुता सती ॥१४८॥

इति सकलविभूत्यवाप्तिहेतूः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनमिह पठ्यते नृभिर्यै र्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥१४९॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP