श्रीविष्णुपुराण - प्रथम अंश - अध्याय ३

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥१॥

श्रीपराशर उवाच

शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।

भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥२॥

तन्निबोध यथा सर्गे भगवान्सम्प्रवर्त्तते । नारायणाख्यो भगवान्ब्रह्म लोकपितामहः ॥३॥

उप्तन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः ॥४॥

निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्द्ध च परार्द्धमभिधीयते ॥५॥

कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ । तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥६॥

अन्येषां चैव जन्तूनां चराणामचराश्च ये । भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥७॥

काष्ठा पत्र्चदशाख्याता निमेषा मुनिसत्तम । काष्ठा पत्र्चदशाख्याता निमेषा मनिसत्तम ।

काष्ठा त्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः ॥८॥

तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् । अहोरात्राणि तावानित मासः पक्षद्वयात्मकः ॥९॥

तैः षड्‌भिरयनं वर्ष द्वेऽयनें दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥१०॥

दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतदिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥११॥

चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् । दिव्याब्दानां सहस्त्राणि युगेष्वाहुः पुराविदः ॥१२॥

तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते । सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः ॥१३॥

सन्ध्यासध्यांशयोरन्तर्यः कालो मुनिसत्तम । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥१४॥

कृतं त्रेता द्वाररश्च कलिश्चैव चतुर्युगम् । प्रोच्यते तस्तहस्त्र च ब्रह्मणो दिवसं मुने ॥१५॥

ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश । भवन्ति परिमाणं च तेषां कालकृतं श्रृणु ॥१६॥

सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः । एककाले हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥१७॥

चतुर्यगुणां संख्याता साधिका ह्रोकासप्ततिः । मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥१८॥

अष्टौ शत सहस्त्राणि दिव्ययां संख्यया स्मृतम् । द्विपत्रचाशत्तथान्यानि सहस्त्राण्यधिकानि तु ॥१९॥

त्रिंशत्कोट्यस्तु सम्पूर्णाः संख्याताः संख्याया द्विज । सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥२०॥

विंशतिस्तु सह्स्त्राणि कालोऽयमधिकं विना । मन्वन्तरस्य सड्खयेयं मानुषैर्वत्सरैर्द्विज ॥२१॥

चतुर्दशगुणो ह्योष कालो ब्राह्ममहः स्मृतम् । ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसत्र्चरः ॥२२॥

तदा ही दह्राते सर्वं त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्था महर्लोकनिवासिनः ॥२३॥

एकार्णवे तु त्रैलोक्ये ब्रह्म नारायणात्मकः । भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥२४॥

जनस्थैर्योगिभिर्देवाश्चिन्त्यमानोऽब्जसम्भवः । तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः ॥२५॥

एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् । शतं हि तस्य वर्षाणां परमायुर्महात्मनः ॥२६॥

एकमस्य व्यतीतं तु परार्द्ध ब्रह्मणोऽनघ । तस्यान्तेऽभून्महाकल्पः पाद्य इत्यभिविश्रुतः ॥२७॥

द्वितीयस्य परार्द्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोऽयं प्रथमः परिकीर्तितः ॥२८॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP